SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३० प्रबन्धचिन्तामणिः सर्गः ३ स्वार्थी यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुः पूरोदरपूरणाय पिबति श्रोतः पतिं वाडवो जीमूतस्तु निदाघसंभृत जगत्संतापविच्छित्तये ॥ १ इति काव्यर्थबलेन निगृहीतप्रभूतलोभस्ततो भूयः किमप्यभ्यर्थ्यमानोऽपि मानोन्नततया स्वस्थानमगमत् । ततश्व कौटुम्बिकलोकैः स्तूयमानस्तृतीयेऽ हनि स श्रमूलरोजः स्वर्लोकं जगाम । तच्छोकाम्बुधौ स राजलोको राजा स च पूर्वमोचितलोकश्च निमग्नश्विरेण चतुरैर्विविधबोधबलाद परुष्टशोकशङ्कुचक्रे । अथ द्वितीयवर्षे कर्षुकला कै व पाबलान्नि:पन्नेषु समस्तसस्येषु व्यतीततद्वर्षयो राजदेयभागविभागे प्रदिश्यमाने राज्ञि चानाददाने सति तैरुत्तरसभा मेलिता । तत्र सभ्यानां लक्षणमेवं ॥ न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः ः स नो यत्र न चास्ति सत्यं सत्यं न तद्यत्कृतकानुविद्धम् ॥ १ ॥ - १ D सूक्तार्थ. २ प्रार्थयमानो मानोन्नततया स्वसौधमध्यास्य बन्धमोचितैस्तैर्लोकैः सदैव तदुपास्यमानः स्वसौधगतैश्व स्तूयमानस्तृतीयेऽहनि तदीयसन्तोषदृशा श्रीमूलराजः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy