SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२८ प्रबन्धचिन्तामणिः सर्ग. २ क्वणन्मधुरवीणया विबुधलोकलोलभ्रुवा । त्वदीयमुपगीयते हरकिरीटकोटिस्फुरतुषारकरकन्दलीकिरणपूरगौरं यशः ॥२३॥ बल्लालक्षोणीपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी । क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुपातैर्मधुकरनिकरैधूमशङ्कां बिभर्ति ॥ २४ ॥ स्नाता तिष्ठति कुन्तलेश्वरसुता वारोङ्गराजस्वसु तैरात्रिरियं जिता कमलया देव्या प्रसाद्याधुना । इत्यन्तःपुरसुन्दरीजनगणे न्यायाधिकं ध्यायता देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ॥ २५ ॥ वहति भुवनश्रेणी शेषः फणाफलकस्थितां कमठपतिना मध्येपृष्टं सदा स च धार्यते । तमपि कुरुते क्रोडाधीनं पयोनिधिरादरादहह महतां निःसीमानश्चरित्रविभूतयः ॥ २६ ॥ दृष्टे श्रीभोजराजेन्द्रे गलान्त त्रीणि तत्क्षणात् । शत्रोः शस्त्रं कवेः कष्ट नीवीबन्धो मृगीदृशाम् ॥ कविषु वादषु भोगेषु योगिषु द्रविणदेषु सतामुपकारिषु। धनिषु धन्विषु धर्मपरेषु च क्षितितले नहि भोजसमो नृपः ॥ २७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy