________________
भोजभीमप्रबन्धौ
अगस्त्यः पाथोधिं यदकृत कराम्भोजकुहरे
क्रियासिद्धिः सवे वसति महतां नोपकरणे ॥ १६ ॥
रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गश्वरणविकलः सारथिरपि । रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः ० ॥ १७॥
विजेतव्या लङ्का चरणतरणीयो जलनिधि--- र्विपक्ष: पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्याजी रामः सकलमवधीद्राक्षस कुलं क्रियासिद्धिः ० ॥ १८ ॥
धनुः पौष्यं मौर्वी मधुकरमयी चञ्चलदृशां श कोणो वाणः सुहृदपि जडात्मा हिमकरः । स्वयं चैकोऽनङ्गः सकलभुवनं व्याकुलयति क्रियासिद्धि ० ॥ १९ ॥ अर्द्ध दानववैरिणा गिरिजयाप्यर्द्ध शिवस्याहृते देवेत्थं जगतीतले पुरहराभावे समुन्मीलति । गङ्गासागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधश्वरत्वमगमत्वां मां च भिक्षाटनम् ॥ २० ॥ शुक्तिद्वयपुढे भोज यशोऽब्धौ तव रोदसी । मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम् ॥ २९ ॥ अभूत्प्राची पिङ्गा रसपतिरिव प्राप्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणात्क्षीणास्तारा नृपत इवानुद्यमपरा न राजन्ते दीपा द्रविणरहितानामिव गृहाः ॥ २२ ॥ समुन्नतघनस्तनस्तवकचुम्बितम्बीफल
Jain Education International
For Private & Personal Use Only
१२७
www.jainelibrary.org