________________
१२६
प्रबन्धचिन्तामणिः सर्ग. २
पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममरधुनीपुण्डरीकं मृगाङ्को ज्यात्स्नापीयूषवापी जयति सितवृषस्तारकागोधनस्य ॥ ९ ॥ महाराज श्रीमन् जगति यशसा ते धवलित पयःपारावारं परमपुरुषोऽयं मृगयते कपर्दी कैलासं करिवरमभौमं कुलिशभृत् कलानाथं राहुः कमलभवनो हंसमधुना ॥ १० ॥ नीरक्षीरं गृहीत्वा निखिलखगततिं याति नालीकजन्मा सक्रं धृत्वा तु सर्वानटति जलनिधींश्चक्रपाणिमुकुन्दः । सवानुत्तुङ्गशैलान् दहति पशुपतिर्भालनेत्रेण पश्यन् व्याप्तत्वत्कीर्त्तिकान्तौ त्रिजगति नृपते भोजराज क्षितीन्द्र ॥ ११ ॥ विद्वद्राजशिखामणे तुलयितुं धाता त्वदीयं यशः कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान पूर्त्तये । उक्षाणं तदुपर्युमासहचरं तन्मूईि गङ्गाजलं तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम् ॥ १२ ॥ स्वर्गाद्गोपाल कुत्र ब्रजासे सुरमुने भूतले कामधेनोवत्सस्यानेतुकामस्तृणचयमधुना मुग्धदुग्धं न तस्याः । श्रुत्वा श्रीभोजराजप्रचुरवितरणं व्रीडशुष्कस्तनीं सा व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिववितं सर्वमूर्व्याम् ॥ १३ ॥ अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् । शत्रूणां शृङ्खलैलीहं ताम्रं शासनपत्रकैः ॥ १४ ॥ निजानपि गजान् भोजं ददानं प्रेक्ष्य पार्वती । गजेन्द्रवदनं पुत्रं रक्षत्यद्य पुनः पुनः ॥ १५ ॥ घटो जन्मस्थानं मृगपरिजनो भर्जवसनं वने वासः कन्दादिकमशनमेवंविधगुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org