________________
भोजभीमप्रबन्ध
अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णी यास्मात्सुपिहितवती दीनवदना । मयि क्षीणोपाये यदकृत दशावबहुले तदन्तः शल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥ ३ ॥ आमोदैर्मरुतो मृगाः किसलयोल्छासैस्त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो धर्मादिताश्छायया । स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्ततः त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ ४ ॥ हठादाकृष्टानां कतिपयपदानां रचयिता जनः स्पर्द्धालुश्चेदहह कविना वश्यवचसा । भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ ९ ॥ मुक्ताभूषणमिन्दुबिम्बमजाने व्याकीर्णतारं नभः स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते । व्यालीनं कलकठण्मन्दरणितं मन्दानिलैः स्पन्दितं निष्पन्दस्तबका च चम्पकलता साभून्न जाने ततः ॥ ६ ॥ खिन्नं मण्डलमैन्दवं विलुलितस्रग्भारनद्धं तमः प्रागेव प्रथमानकैतकशिखालीलायितं सुस्मितम् । शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरो मीलितं वीतं विद्रुमसत्कृितं नहि ततो जाने किमासीदिति ॥ ७ ॥ अहो मे सौभाग्यं मम च भवभूतेश्व भणित तुलायामारोप्य प्रतिफलति तस्यां लघिमनि । गिरां देवी सद्यः श्रुतिकलितकल्हारकलिकामधुमाधुर्यं क्षिपति परिपूत्यै भगवती ॥ ८ ॥ लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां
Jain Education International
For Private & Personal Use Only
१२५
www.jainelibrary.org