________________
१३४
प्रबन्धचिन्तामणिः सर्ग. २
पा यथाश्रुतं मन्तव्याः ॥ देव त्वत्करनीरदे दशादीरी प्रारब्धपुण्योन्नतौ चञ्चत्काञ्चनकङ्कणद्युतितडित्स्वर्णामृतं वर्षति । वृद्धा कीर्त्तितरङ्गिणी समभवत्प्रीता गुणग्रामभूः पूर्णं चार्थिसरः शशाम विदुषां दारिद्र्यदावानलः १ त्यागः कल्पद्रुम इव भुवि त्रासिताशेषदौस्थ्यः साक्षाद्वाचस्पतिरिव जनान्दव्धनानाप्रबन्धः । राधावेथेऽर्जुन इव चिरात्तस्य कीत्र्योत्कचित्तैराहूतः श्रागमरनिकरैः स्वर्ययौ भोजराजः ॥ ३॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीभोजश्री भीमभूपयोनीनावदातवर्णनो नाम द्वितीयः प्रकाशः ॥
AC D पुस्तकेषु न B प्रान्तभागे लिखितानि काव्यानि यथा ॥ धाराधरस्त्वद सिरेव नरेन्द्र चित्रं
वर्षन्ति वैरिवनिताज नलोचनानि । कोशेन सन्ततमसंगतिराहवेऽस्य दारिद्यमभ्युदयति प्रतिपार्थिवानाम् ॥ १ ॥ कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्तामादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः । दिङमातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः सर्वे स्वैरं चरन्तु त्वाय वहति विभो भोज देवीं धरित्रीम् ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org