________________
भोजभीमप्रबन्धी १२३ हेमी मण्डपिका गणाधिपयुतः श्रीनीलकण्ठेश्वरः॥२ .. अथ श्रीकर्णस्याये इदं काव्यमुक्तं कर्पूरकविना मुखे हारावाप्तिरित्यादि.। अपशब्दकथनाद्राज्ञा तस्य कवेः किंचिन्न प्रदत्तं । कुक्षेः कोटर एव कैटिभरिपुर्धत्ते त्रिलोकीमिमामन्तभूरिभरं बिभर्ति तमपि प्रीतो भुजङ्गाधिपः । श्रीकण्ठस्य स कण्ठसूत्रमभवदेव त्वया तं हृदा बिभ्राणेन परेषु विक्रमकथा श्रीकर्ण निशिता श्रीनाचिराजकविनोक्तमेतद्राज्ञा प्रदत्तम् । दत्ता कोटी सुवर्णस्य मत्ताश्च दश दन्तिनः। दत्तं श्रीकणेदेवन नाचिराजकवेमेदात् ॥ २॥ भार्यया हक्कितेन कर्पूरकविना समागच्छतो नाचिराजकवेरग्रे मार्गे इदं काव्यं भणितं । यत् कन्ये कासि न वेत्ति मामपि कवे कर्पूर किं भारती सत्यं किं विधुरासि वत्स मुषिता केनाम्ब दुर्वेधसा। किं नीतं तव मुञ्जभोजनयनद्वद्वं कथं वर्त्तसे दीर्घायुर्भजतेन्धयष्टिपदवीं श्रीनाचिराजः कविः १
श्रीनाचिराजकविना संतुष्टेन यदाज्ञा प्रदत्तं तत्सर्वमपि कर्पूरकवये प्रदत्तं ।
इत्यादि भोजस्य नानाविधाः प्रबन्धा अवशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org