________________
भोजभी मप्रबन्धी
११९ वा मां निर्जित्य पश्चोत्तरशतबिरुदानां भाजनं भूयाः । नो वाहं त्वां विजित्य सप्तत्रिंशताधिकस्य राज्ञां शतस्य नाथो भवामीति तद्वचसा परिम्लान मुखाम्भोजः श्रीभोजः सर्वेष्वपि प्रकारेषु जितका. सिनं श्रीकाशिपुराधीशं विमृशन् स्वं विजितं मन्यमानस्तानुपरोधपूर्वमभ्यर्थैवमङ्गीकारयामास। मयावन्त्यां श्रीकर्णेन वाणारस्पामेकस्मिन्नहनि लग्न गर्तापूरपूर्वमारभ्याहंपूर्विकया कार्यमाणयोः पञ्चाशद्धस्त प्रमाणयोः प्रासादयोः यस्मिन्प्रासादे प्रथमं कलशध्वजारोपो भवति तस्मिन्नुत्सवे परेण नरेन्द्रेण त्यक्तच्छत्रचामरेण करेणुमधिरूह्य समागन्तव्यमित्थं भोजस्य यथारुच्यङ्गीकारे कर्णगोचरंगते श्रीकर्णस्तेनापि प्रकारेण भोजमधश्चिकीर्षुरेकस्मिन्नेव लग्ने पृथग २ प्रारब्धयोरुभयोः प्रासादयोः सर्वाभिसारेण निजप्रसादं निर्मापयतोस्तत्र कर्णः सूत्रभृतं पप्रच्छ । एकस्मिन्नहन्युदयास्तयोरन्तरे कियान्कर्मोछायो भवतीति निवेद्यतां । अथ तेन चतु
. १ वादस्थवेन त्यागेन च मां विनिर्जित्यचतुरुत्तरशत. २ इतिप्रजावाविर्भावादीषत्परि. ३ जयनशीलं. ४ कर्मस्थायो (नोपारखाना लोकोक्ती जैनास्तु कोशेषु)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org