________________
भोजभीमप्रबन्धी ११७ ताम्बरवेषधारिणा श्रीचन्दनाचार्येण प्रत्युत्यन्नप्रतिभाभिरामतयौचित्यमभिदधे ॥ विद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन राजन्याषाणवेधव्यसनरसिकतां मुश्च देव प्रसीद । क्रीडेयं चेत्प्रवृद्धा कुलशिखरिकुलं केलिलक्षं करोषि ध्वस्ताधारा धरित्री नृपतिलक तदा याति पाताल
मूलम् ॥१॥ इति तत्कवितातीशयचत्कतोपि किंचिद्दिचिन्त्य नृपतिरित्युवाच । भवता सर्वशास्त्रपारगतेनापिध्वस्ता धारेति यत्पदमपाठि ततःकमप्युत्यातं सूचयति ॥इतश्च॥ डाहालदेशीयराज्ञो राज्ञी देमतीनानी महायोगिनी कदाचिदासन्नप्रसवा सदैव दैवज्ञानिति पप्रच्छ । कस्मिन्सुलग्ने जातः सुतःसार्वभौभो भवतीति। अथ तैः सम्यगवगम्योच्चराशिषु केन्द्रस्थेषु सौम्यग्रहेषु त्रिषडायगेषु क्रूरेषु चामुकलग्ने जातः सुतः सार्वभौमो भवतीत्युक्तं तन्निशम्यं निश्चितप्रसवदिनादूर्ध्व षोडशप्रहरान्यावद्योगयुक्त्या गर्भस्तम्भं कवा नैमित्तिकनिर्णीते लग्ने सुतं कर्णनामानं प्रासूते । तद्गर्भधारणदोषादष्टमे यामे सा विपन्नौ । सुल, १ D इति निशम्य २ मुनमसूत ३ संयमिनी पुरी जगाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org