________________
११४ प्रबन्धचिन्तामणिःसर्ग. २ तया न मोक्तुं च शक्नोमीति तेनोक्ते तं श्वानं निजस्कन्धे समारोप्य पशुपालं सह नीत्वा नृपसभामुपागतस्तमुत्तरकारिणं निवेदयामास । अथ स पशुपालो नृपेण तदेव वचनं पृष्ठः । अस्मिन् जीवलोके राजन् लोभ एवैको न भव्यः । राज्ञा कथमिति भूयोपि दृष्टः । यद्ब्राह्मणः श्वानं स्कन्धदेशेनास्टइयमपि वहति तल्लोभस्यैव विजम्भितमतो लोभ एव न भव्यः ॥ अथान्यदा मित्रमात्रसहायो नृपतिनिशि परिभ्रमन्पिपासाकुलतया पणरमणीगृहं गत्वा मित्रमुखेन जलं याचितवान् । ततोऽतुच्छवा. त्सल्याच्छम्भल्या कालविलम्बनेनेक्षुरसपूर्णः करकः सखेदमुपानीयत । मित्रेण खेदकारणे दृष्टे, एकस्यामिक्षुलतायां' पुरा सः संपूर्णः सचाहटिको घट आसीत् साम्प्रतं तु प्रजासु विरुद्धमानसाय चिरकालेन केवला वाहटिकैव भृतेति खेदकारणं नृपस्तदाकर्ण्य केनापि वणिजा शिवायतने महति नाटके कार्यमाणे तल्लुण्टनचित्तमात्मानं विमृश्य तदे
१ C शूजेन भिद्यमानायां रसः परिपूर्णः सपोहटिको पट आसीत.. २ लुण्ठन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org