________________
भोजभीमप्रबन्धौ १०७ यूरे विज्ञपयति बाणो बाणनिभया गिरा तं मर्म. णि विव्याध । यदि देवताराधनं सुकरं तदा त्व. मपि किमपीहक् चित्रमाविःकुरु । इत्यभिहिते तेन मयूरेण तं प्रति प्रतिवचः संदधे । निरामयस्य किमायुर्वेदविदा तथापि तव वचः सत्यापयितुं निजपादौ च पाणी छुर्या विदार्य त्वया षष्ठे काव्ये सूयः परितोषितोऽहं तु पूर्वस्य काव्यस्य षष्ठेऽक्षरे - वानी परितोषयामीति प्रतिश्रुत्य सुखासनमासीनश्वण्डिकाप्रासादपश्चाद्भागे निविष्टो माभ्रामीविभ्रममिति षष्ठेक्षरे प्रत्यक्षीकतचण्डिकाप्रसादात्प्रत्ययप्रथमानवपुःपल्लवः स्वसन्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता महेन पुरं प्राविक्षत् । 'एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैर्नृपोऽभिदधे। यदि जैनमते कश्चिदीदृग्प्रभावविर्भावः प्रभवति तदा सिताम्बराः स्वदेशे स्थाप्यन्ते नो चेन्निास्यन्ते इति तद्वचनानन्तरं श्रीमानतुङ्गाचार्यास्तत्राकार्य निजदेवतातिशयं कमपि दर्शयन्तु इति राज्ञा भणितं । ते प्राहुः। १ A आराधनाद्यं २ D ततस्ती स्पर्द्धया काश्मीरं गतौ ३ दर्शयत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org