SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ अन्यदा भोजसभायां काव्यमिदमुक्तं तेन । धाराधीश धरामहीशगणने कौतूहलीयानयं वेधास्त्वद्गणनां चकार खटिकारखण्डेन रेखां दिवि । सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमिधवाभावात्तत्त्यजति स्म सोयमवनीपीठे तुषाराचलः १ अपरपण्डितैरस्मिन्काव्ये उपहसिते धनपालेनोक्तम् शैलैर्बन्धयति स्म वानरहतैवाल्मीकिरम्भोनिधि व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वस्तु प्रस्तुतमेव किंचन वयं ब्रूमस्तथाप्युच्चकैलोकोयं हसति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ।। एकदा राजन्महाभारती कथा श्रूयतामित्युक्ते पण्डितं प्रति परमार्हतेन तेन प्रत्युक्तं कानीनस्य मुनेः स्ववान्धववधूवैधव्यविध्वंसिनो नेतारः किल पञ्च गोलकसुताः कुण्डाः* स्वयं पा ‘ण्डवाः। तेमी पञ्च समानजातय इति ख्यातास्तदुत्कीर्तनं पुण्यं स्वस्त्ययनं भवेद्यदि नृणां पापस्य कान्या गतिः ॥ २ ॥ शोभनमुनेश्चतुर्विशातिका स्तुतिः प्रतीतैव'॥ ( * अमृते जारजः कुण्डो मृते भर्तरि गोलकः) १ B D तु शोजनचतु. २ धनपालस्य धनपालपञ्चाशिकाविद्यते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy