________________
९४ प्रबन्धचिन्तामणिः सर्ग. २ . यूपं कृत्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ॥ २ ॥ सत्यं यूपं तपो ह्यग्निः कर्माणि समिधो मम।
अहिंसामाहतिं दद्यादेवं यज्ञः सतां मतः ॥ ३॥ ___इत्यादि शुकसंवादोदितानि वचासि नरेन्द्रस्य पुरतः पठन् हिंसाशास्त्रोपदेशिनो हिंसकप्रकतीब्राह्मणरूपेण राक्षसांस्ताज्ञापयन्नृपमहर्द्धाभिमुखं चकार ॥ अथ कस्मिन्नप्यवसरे नरेश्वरः सरस्वतीकण्ठाभरणप्रासादे व्रजन्सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत् । सर्वज्ञस्तावत्कदाचिदासीत्तद्दर्शने साम्प्रतं कश्चिज्ज्ञानातिशयोस्तीत्यभिहिते, अर्हत्कृतेऽहंचूडामाणिग्रन्थे विश्वत्रयस्यत्रिकालवस्तुविषयस्वरूपपरिज्ञानमद्यापि विद्यत इति तेनोक्ते, त्रिभरमण्डपे स्थितः कस्मिन्दारेऽ स्माकं निर्गम इति शास्त्रकलङ्कारोपणोद्यते नृपे बुद्विमात्रा त्रयोदशीति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णयमालिख्य मृण्मयगोलके निधाय च १ C प्राणाः स मेधयो २ एष यज्ञः सनातनः ३ श्रुतिसंवाद. H D अर्हन्न श्रीचूडामणिनामान. (५ निर्णयस्तु बुद्धिमानगम्य इति लोकोक्ति, नत्स्थानेऽधुना सर्वसिद्धा त्रयोदशीति ज्योतिर्विदः।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org