SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्ध रसातलं यातु तवात्र पौरुषं कुनीतिरेषा शरणो ह्यदोषवान् । निहन्यते यद्दलिनापि दुर्बलो ह हा महाकष्टमराजकं जगत् ॥ २ ॥ इति तन्निर्भर्त्सनात्क्रुद्धो नृपः किमेतदित्यभिदधाने वैरिणापि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ॥ १ ॥ इत्यूचेऽतोऽद्भुत संजातरूपेण नृपेण धनुर्बाणभङ्गमङ्गीकृत्याजीवितान्तं संन्यस्तमृगयाव्यसनेन पुरं प्रत्यागच्छता तत्र यज्ञमण्डपे यज्ञस्तम्भनियन्त्रितच्छागस्य दीनां गिरमाकर्ण्य किं पशुरसौ व्याहरतीत्यादिष्टः स धनपालोऽवधेहीति प्राह ॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग याति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथां बान्धवैः ॥ १ ॥ इति तद्वाक्यानन्तरं राज्ञा किमेतदिति भूयोभियुक्तः । १ शरणागतः (२ ( अत्र धनपालः । रसातखमित्यादि० तन्नि मना नृपः किमेतदित्यभिधानः वैरिणोषि Jain Education International ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy