SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ त्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः कनीयसि शोभने कृपापरः स्वप्रतिज्ञाभङ्गपातकं तीर्थेषु क्षालयितुमिच्छुः प्रतितीर्थ प्रतस्थे । अथ पितृ. भक्तेन शोभननाना लघुपुत्रेण तं तदाग्रहान्निषिध्य पितुः प्रतिज्ञा प्रतिपालयितुमुपात्तव्रतः स्वयं तान्गुरुननुससार । अभ्यस्तसमस्तविद्यास्थानेनं ध. नपालेन श्रीभोजप्रसादसंप्राप्तसमस्तपण्डितप्ररुष्टप्रतिष्ठेन निजसहोदरामर्षभावाद्वादशाब्दी यावत्स्वदेशनिषिद्धजैनदर्शनप्रवेशेन तद्देशोपासकैरत्यर्थमभ्यर्थनया गुरुपुरुषेषाहूयमानेषु सकलसिद्धान्तपारावारपारदृश्वा स शोभननामा तपोधनो गुरूनाप्टच्छ्य तत्र प्रयातो धारायां प्रविशन पण्डितधनपालेन राजपाटिकायां व्रजता तं सहोदरमित्यनुपलक्ष्य सोपहास गर्दभदन्त भदन्त नमस्ते इति प्रोक्ते कपिवृषणास्य वयस्य सुखं ते इति शोभनमुने. र्वचसान्तश्चमत्कृतो मया नर्मणापि नमस्ते इत्युक्तेऽनेन तु वयस्य सुखं ते इत्युञ्चरता वचनचातुर्यानिर्जितोस्मीति। तत्कस्यातिथयो यूयमिति धनपालस्यालापैर्भवत एवातिथयो वयमिति शोभनमुने१ पठिनपुराणन्यायमीमांसाधर्मशास्त्रवेदवेदाङ्गेन६ 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy