________________
२०
प्रबन्धचिन्तामणिः सर्ग. २
र्वाचमाकर्ण्य बटुना सह निजसौधे प्रस्थाप्य तत्रैव स्थापितः । स्वयं सौधे समागत्य धनपालः प्रियालापैः सपरिकरमपि तं भोजनाय निमन्त्रयंस्तैः प्रासुकाहार सेवा परैर्निषिद्धः । बलाद्दोषहेतुं पृच्छन् भजेन्माधुकरी वृत्तिं मुनिम्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत वृहस्यतिसमादपि ॥ १ ॥ तथाच | जैनसमये दशवैकालिके ॥ * महुकारसमा बुद्दा जे भवन्ति अणिस्तिया । नाणापिण्डरया दन्ता तेण वुच्चन्ति साहुणो ॥ १ इति स्वसमयपर समयाभ्यां निषिद्धं कल्पितेमाहारं परिहरन्तः शुद्धाशनभोजिनो वयमिति तच्चरित्रचित्रितमनाः सतुष्णीकमुत्थाय सौधमाप | मजनारम्भे गोचरचर्यया समागतं तन्मुनिद्वन्द्वमवलोक्य सिद्धेऽन्नपाके तद्ब्राह्मण्यो पढौकिते दधिमुनिभ्यां व्यतीत कियद्दिनमेददिति पृछ्यमाने, धनपालः किमत्र पूतराः सन्तीति सोपहासमभिदधानो, व्य* मधुकरसमा भ्रमरवृत्तयः, बुद्धा ये भवन्ति, अनिश्चिता निश्रादोपहिताः, नानापिण्डरता दान्ताः तेन हेतुना साधव उच्यन्ते ॥
#
१ विनोजीवहिंसारहिनाहारसेवनता २ कमपि साध्व दिकमुद्दिश्य निष्पादनं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org