________________
भोजभीमप्रबन्धौ यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तं विज्ञापनापूर्व किञ्चिच्चरणस्फुरच्छोफाय पत्ये निवेदयामास । अथ त्वमेव मे शरीरिणी कीर्त्तिरिति श्लाघमानस्तदा स्वगृहमागतं कमपि भिक्षु वीक्ष्य भुवने तदुचितं किमपि देयमपश्यन् संजातनिर्वेद इदमवादीत् ॥
अर्था न सन्ति न च मुञ्चति मां दुराशा दार्नद्धि सङ्कुचति दुर्ललितः करो मे ।
याचा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं परिदेवितेन ॥ १ ॥ दारिद्यानलसंतापः शान्तः संतोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यतु ॥ २ ॥ व्रजत व्रजत प्राणा अनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क सार्थः पुनरीदृशः ॥ १ ॥ न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिंपरिवृढान्कारयति कः । अदत्त्वापि ग्रासं ग्रहपतिरसावस्तमयते क यामः किं कुर्मो गृहिणि गहनो जीवितविधिः २ क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतो प्यागतः
१ D द्विज.
Jain Education International
८७
For Private & Personal Use Only
www.jainelibrary.org