SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ८६ प्रबन्धचिन्तामणिः सर्ग. २ कृतार्थयस्तैर्भोगविधिभिः स्वममानुषावतारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्यचमत्कृतविद्वज्जनः स प्रान्ते पुण्यक्षयात्क्षीणवित्तो वि - पत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां कृतावासः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नीं प्रस्थाप्य यावत्तदाशया माघपण्डितश्विरं तस्थैौ । तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्यससंभ्रमाशलाकान्यासेन तत्पुस्तकमुन्मुद्र्य काव्यमद्राक्षीत् ॥ कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ १ ॥ अथ काव्यार्थमवगम्य का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्यं समयोचितस्यानुच्छिष्टस्य हीशब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज । सापि ततः सं चरन्तीविदितमाघपण्डित पत्नी कैश्विद्विराभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy