SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ८५ भोजभीमप्रबन्धौ वज्यमानोऽमन्द चन्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिस्वनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापितः प्रतिसमयं सविस्मयः कति दिनान्यवस्थाय स्वदेशगमनायाष्टच्छन् स्वयं करिष्यमाणनव्य भोजस्वामिप्रसाद प्रदत्तपुण्या' मालवमण्डलं प्रति प्रतस्थे । तथा निजजन्मदिने जनकेन नैमित्तिकाजात कार्यमाणे पूर्वमुदितोदितसमृद्धिर्भूत्वा प्रान्त गलितविभवः किंचिञ्चरणयोराविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यतीति । निमित्तविदा निवेदितां विभवसंभारेण तां ग्रहगतिं निराचिकीर्षुणा माघपिता संवत्सरशतप्रमाणे मनुजायुषि पर्द्विशत्सहस्राणि दिनानि भविष्यन्तीति विमृश्य नाणकपरिपूर्णस्तावत्संख्यान् हारकान् कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतश: समर्प्य प्रदत्तमाघनाने सुताय कुलोचितां शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तद्नन्तरमुत्तराशापतिरिव प्राज्यसाम्राज्य विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थं १ तन्नामक ग्रन्थस्यापि श्रेयाः Jain Education International For Private & Personal Use Only C www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy