________________
८२ प्रबन्धचिन्तामणिःसर्ग. २ लादायातः श्रीभोजस्य सभा वर्णयन्महान्तमायल्लके जनयति। तत्र गतश्च श्रीभीमस्यामात्रां रूपपात्रतां वर्णयंस्तदिदृक्षातरलितः श्रीभोजस्तमिहानय तत्र मां नयेति वेत्यभ्यय॑मानः । सभादर्शनोत्कण्ठितेन भीमेन तथैवोच्यमानश्च कस्मिन्नपि वर्षे उपायविन्महदुपायनमादाय विप्रवेषधारिणं ताम्बूलकरण्डकवाहिनं श्रीभीमं स गृहीत्वा सदसि गतः प्रणमन्,श्रीभोजेन श्रीभीमानयनवृत्तान्तं व्याहृतः स विज्ञपयांचक्रे । स्वतन्त्राः स्वामिनोऽभिमतं कार्य केन बलात्कार्यन्ते, इति सर्वथाप्येके दासा देवेन नावधीरणीया' इत्यभिधाय, श्रीभीमस्य वयोवर्णाकतीनां सादृश्यं तच्छन्श्रीभोजस्तान्सभासदो लोकानवलोकयन्स्थगीधरं लक्षीकत्य डामरेणेत्यभिदधे । स्वामिन् इमारूतिरयं वर्ण इदं रूपमिदं वयः । अन्तरं चास्य भूपस्य काचचिन्तामणेरव ॥ १ ॥
इति तेन विज्ञप्ते चतुरचक्रवर्ती श्रीभोजस्तत्सामुद्रिकविलोकनान्निश्चलदृग्तादृशं नृपं विमृश्योपायनवस्तून्युपनेतुं स सन्धिविग्रहिकस्तं प्राहिणोत्।
१ आश्चर्य. २न निरक याग्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org