SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भोजप्रबन्धौ · तेषु वस्तुपूपनीयमानेषु तद्रुणवर्णनवार्तान्तरव्याक्षेपेण च भूयास कालविलम्बे संवृत्ते स्थगीवाहको ऽद्यापि कियचिरं विलम्बत इति राज्ञा समादिष्टः स तं भीममिति विज्ञपयामास । राजा तदा तदनुपदिकानि सैन्यानि प्रगुणयन् डामरेणाभिदधे । द्वादI । श २ योजनानां प्रान्ते प्रावहणिका हया घटिकायोजनगामिन्यः करभ्योनया समयसामय्या श्रीभीमो भुवमाक्रमन्कथं भवता गृह्यते इति विज्ञतस्तेन पाणी घर्षयित्वा चिरं तस्थे । अथ श्रीभोजः श्री माघपण्डितविद्वत्तां पुण्यवत्तां च सततमाकर्ण्य तदर्शनोत्सुकता राजादेशैः सततं प्रेष्यमाणैः श्रीमालनगरादिमसमये समानीय सबहुमानं भोजनादिभिः सकृत्य तदनु राजोचितान्विनोदान्दर्शयन्, रात्रावारात्रिक्रावसरानन्तरं संनिहिते स्वसंनिभे पल्यङ्के माघपण्डितं नियोज्य तस्मै स्वशीतरक्षामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं सुखेन सुष्वाप । प्रातर्माङ्गल्यतूर्यनिर्घोषैर्विनिद्रं नृपं स्वस्थानगमनायं माघपण्डित आष्टष्टवान् । विस्मयापन्नहदयेन राज्ञा दिने भोजनाच्छादनादिसुखं ष्टष्टः स क१ D कुमुदण्डमा २० कर्ण Jain Education International For Private & Personal Use Only ८३ www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy