________________
भोजभीमप्रबन्धौ
Ge
हितं हस्तिनमुपायने उपादाय पत्तते श्री भीमं परितोषयामास । कस्मिंश्चिद्धर्मशास्त्राकर्णनक्षणेऽर्ज्जुनस्य राधा वेधमाकर्ण्य किमभ्यासस्य दुष्करमिति विमृशन्सतताभ्यासवशाद्विश्वविदितं राधावेधं विधाय नगरे हद्दशोभां कारयं स्तैलिक शूचिकाभ्यामवज्ञया निराकृतोत्सवाभ्यां श्रीभोजभूपो व्यज्ञप्यता तैलिकेन चन्द्रशालास्थितेन भूमिस्थितसंकीर्णवदने मृन्मयपात्रे तैलधाराधिरोपणात्, सूचिकेन च भूमिस्थितेनोकततन्तुमुखे आकाशात्पतन्त्याः शूच्या विवरं नियोज्य निजाभ्यासकौशलं निवेद्य नृपं प्रति चेच्छक्तिरस्ति ततः प्रभुरप्येवं करोत्वित्यभिधाय राज्ञो गर्व खर्वै चक्राते ॥ भोजराज मया ज्ञातं राधावेधस्य कारणम् । धाराया विपरीतं हि सहते न भवानिति ॥ १ ॥
विद्वद्भिरिति श्लाघ्यमानो नवनगर निवेशं क. र्तुकामः पटहे वाद्यमाने धाराभिधया पणस्त्रियानिवेतालनाम्ना पत्या सह लङ्कां गत्वा तं नगरनिवेशमालोक्य पुनः समागतया मन्नाम नगरे दातव्यमित्यभिधाय तत्प्रतिच्छन्दपटं समय सा धारां नगरीं निवेशयामास । कस्मिन्नप्यहनि स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org