________________
नंदीसूत्र - टोकायाः
स्थित्तिनयस्यानित्यवादिनः पर्यायास्तिकस्य मतेन सादि पर्यंतं च श्रुतं अनित्यत्वात् । जीवस्य नारकादिगतिपर्यायवत् । तथाहि श्रुतज्ञानिनां निरंतरमपरापरे द्रव्याद्युपयोगाः प्रसूयंते । प्रलीयते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति । श्रुतकार्यभूतस्य जीवादितत्त्वावबोधस्य श्रुतज्ञानरहिते वस्तुनि अदर्शनादिति । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति । अव्यवस्थित्तिनयस्य नित्यवादिनो द्रव्यास्तिकस्याभिप्रायेणेदं अनाद्यपर्यंतं च नित्यत्वात् पंचास्तिकायवत् । तथाहि यैर्जीवद्रव्यैः श्रुतमिदमधीतं यान्यधीयते यानि वाध्येष्यंते तानि तावन्न कदापि व्यवच्छिद्यत्ते इति तेषामनादिताऽपर्यंतता च ततः श्रुतस्यापि जीवद्रव्यपर्यायभूतस्य तदव्यतिरेकान्नित्यद्रव्यरूपतैव । नहि सर्वथाऽसत् क्वाप्युत्पद्यते सिकतास्वपि तैलाद्युत्पत्तिप्रसंगात् । नापि सतो निरन्वयनाशेनात्यंतोच्छेदः ॥ सर्वशून्यतापत्तेः । तस्माच्छ्रुताधारद्रव्याणां सर्वदैव सत्त्वात्तदव्यतिरेकिणः श्रुतस्यापि द्रव्यरूपवेति स्थितं । अथवा नयविचार मृत्सृज्य द्रव्यादिचतुष्टयमाश्रित्याधिकृत एवार्थः । साचादिस्वरूपं चिंतयति । तत्र द्रव्यक्षेत्र - कालभावैः श्रुतं सादिकमनादिकं सांतमनंतं च भवति ॥ इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिंतनीयं । तत्रैकपुरुषद्रव्यमंगीकृत्य सादि सनिबंधनं च श्रुतं भावयति । कथमित्यादिना । यो येन भावेन पूर्व नासीत् इदानीं च जातः स तेन भावेन तत्प्रथमो भवति । सम्यक्त्ववतः श्रुतस्य पाठस्तत्प्रथम इति सादिः । सम्यक्त्वाच्च्युतस्य पुनमिथ्यात्व प्राप्तौ सपर्यवसितत्वं । सति वा सम्यक्त्वे श्रुतलाभात्सादित्वं । कारणांतराद्वा तत्प्रतिपाते सांतत्वं तान्येवाह ||
فق
1
प्रथमादेति । इह भवेपि प्रमादाच्छ्रुतस्य नाशो भवति अपरस्य ग्लानावस्थायां नश्यति । किल कश्चिच्चतुर्दशपूर्वधरः साधुः मृत्वा देवलोकं गतः । तत्र देवत्वे तत्पूर्वाधीतं श्रुतं न स्मरति सर्व-मपि देशेन त्वेकादशांगलक्षणेन कश्चित्स्मरत्यपि । इति सम्पूर्ण भवांतरगमनान्न पश्यति । केवलोत्पत्तौ च कस्यचिदिहभवेपि श्रुतं न स्मरति 'नटुंमि छाउमत्थिए नाणे' इति वचनात् । ततो लाभकाले तस्य सादित्वं प्रतिपाते तु सांतत्वं । एकजीवद्रव्यापेक्षया चितितं सादिसपर्यवसित्वं । नानाजीवद्रव्यापेक्षया तु तदेव चितयति । बहूनित्यादि द्रव्यविषये नानापुरुषान्नारकतिर्यग्मनुष्यदेवगतान् नानासम्यग्द्रष्टि जीवानाश्रित्य सम्यकश्रुतं सततं वर्त्तते । अभूद्भवति भविष्यति च । न तु कदाचिद्वयवच्छिद्यते । ततस्तामाश्रित्येदमनाद्यपर्यवसितं भवति । अथ क्षेत्रत एकद्रव्यं प्रतीत्य प्रथमभंग निरूपयति । क्षेत्रत इति क्षेत्रे चित्यमाने । भरतैवतक्षेत्रेषु प्रथमतीर्थकरकाले सुषमदुःषमारूपे तद्भवतीति सादित्वं चरम तीर्थकृतीर्थान् स्वव२५ व्यवच्छिद्यते । इति सपर्यवसितत्वं । पंचमहाविदेहक्षेत्राणि प्रतीत्य श्रुतज्ञानं सततं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org