________________
दुर्गपदव्याख्या तु कदापि मिथ्यात्वोदयाद्विपर्यासं न गच्छतः तद्भावे मिथ्यात्वोदयस्यैवासंभवान्मनःपर्यायज्ञानं हि चारित्रिण एव भवति । केवलज्ञानं तु क्षीणघाति चतुष्टयस्येति कुतस्तद्राके मिथ्याल्वोदय इति । एतच्चेह गाथोत्तरार्दोक्तमर्थजातं मिथ्यात्वोदयसंभवासंभवप्रस्तावादनुषं गत एवोकं । प्रस्तुतं पुनरत्र सम्यग्मिथ्याश्रुतमेवेति । अत्र किल परः किंचित्प्रेरयति । तत्तावगम सहावे सइसम्मस्सुयाण को पहविसेसो । जहनाण दसणाणं भेओ उल्लेब वो हम्मि । नाणमवायधिईओ दसण मिठं जहोग्गहोहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं । उभयत्रापि तत्वावगमस्वभावत्वे तुल्ये सतिः कः सम्यक्त्वमिथ्याश्रुतयोः प्रतिविशेषो येनोच्यते सम्यक्त्वपरिग्रहात्सम्यक्श्रुतमिति । एतदुक्तं भवति । रागादिदोषरहित एव देवता । तदाज्ञापारतंत्र्यवृत्तय एव गुरवो । जीवादिकमेवः तत्वं । जीवोपि नित्यानित्यायनेक स्वभावः । कर्ता भोक्ता मिथ्यात्वादिहेतुभिः कर्मणा बध्यते । तपः संयमादिभिस्तु ततो मुच्यत इत्यादि बोधात्मकमेव सम्यक्त्वमुच्यते । श्रुतमप्येवमाधभिलापकमेव । तदनयोः को विशेषो येनोच्यते सम्यक्त्वपरिगृहीतं सम्यक्च्छूतमिति । तत्रोत्तरमाह । जहेत्यादि | यथावस्त्क्वबोधरूपत्वे तुल्येपि ज्ञानदर्शनयोर्भेदस्तथा तत्त्वावगमस्वभावे तुल्येपिः सम्यक्त्व श्रुतयोरिहापि कथंचिद्भेद कथं पुनर्ज्ञानदर्शनयोरन्यत्र तावद्भेद उक्त इति चेदित्याह ॥ नाणेत्यादि । यथा अपायश्च धृतिश्चापायधृतो एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाज्ञानमिष्टं अवग्रहश्चेहावार्थपर्यायविषयत्वेन सामान्यावबोधादर्शनं । तथाऽत्रापि जीवादितस्वविषया या रुचिः श्रद्धानं समक्त्वं भण्यते । येन पुनस्तज्जीवादितत्त्वं रोच्यते . श्रद्धीयते तज्ज्ञानं । अयमत्राभिप्रायः दर्शनमोहनीयकर्मक्षयोपशमाद् या तत्त्वश्रद्धानामिका तत्त्वरुचिरुपजायते तयाः तत्त्वश्रद्धानात्मकजीवादितत्त्वरोचक विशिष्टं श्रुतं जन्यते । ततस्तष्छूताज्ञानव्यपदेश परिहस्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते विशिष्टतत्त्वावगमस्वरूपं. श्रुतमेव सम्यक्त्वं न पुनस्त च्छूतं सम्यक्त्वादतिरिक्तं किंचिदुपलभ्यत इति कथमुच्यते सम्यक्त्व परिग्रहात् सम्यक्श्रुतमिति । सिद्धान्तवादी तु मन्यते । यथा ज्ञानदर्शनयोर्वस्त्वबोधरूपतया एकत्वेपि विशेषसामान्यग्राहकत्वेन भेदस्तथाऽत्रापि शुद्धतत्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं तद्विशिष्टं तु तत्त्वरोचकं श्रतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्वश्रुतयोर्युगपल्लाभेपि कार्यकारणभावाद्भेदः ॥ उक्तं च । कारणकज्ज विभागो दीवपगासणे जुगव जमेपि । जुगवुष्पन्न पि तथा हेऊ नाणस्स संमत्तं । जुगवंपि- समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जहकयग मंजणाई जलदिदीओ विसोहिति । अतो युक्तमुक्तं सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं । विपर्ययात्तु. मिथ्याश्रतमिति गाथाद्वयार्थः ॥ गतं संप्रति पक्षं सम्यक्श्रुतं ॥ ॥ अधिकारवशादिति प्रतिपक्षसंबंधवशादित्यर्थः । पर्यावास्तिकद्रव्यास्तिकनयाभ्यां साधनादिश्रुतविचारोऽभिधीयते ज्यव.
HomHHHHHHHHHI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org