SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ दुर्गपदण्याख्या अपीति सम्भावने वा जलभृते क्वचित् गोष्पदेपि । 'सुढिउत्ति' । सङ्कुचिताङ्गो मेष ऊरणकः पिबेजलं । न च तत्कलुषं करोति, केन हेतुनेत्याह । तनुकृत्वेनाग्रभागे श्लक्ष्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवनम्य तीक्ष्णेन मुखेन तथासौ जलं पिबति यथा सर्वथैव कलुषं न । एवं सुशिष्योऽपि तथा गुरोः सकाशान्निभतं श्रुतं गृह्णाति । यथा तस्य परिषदो वा कस्यचित् मनबाधादिकं कालुष्य न भवतीति । मशकजलकोदाहरणद्वयविवृत्तिमाह । . ___ मसगव्व तुंद जच्चाइएहिं निव्वुत्तए कुसीसोवि। जलुगाव अड्ढमेत्तो पियइ मुसीसोवि मुयनाणं ॥ यथा मशको जन्तु स्तुदति । व्यथयति । ततश्च वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते । तथा कुशिष्योपि जात्यादिदोषोद्धट्टनैर्गुरु तुदन् व्यथयमानो निष्कास्यते परिहियते इति जलुका पुनर्यथाऽसृक् पिबति, नचासृग्मन्थयते । तथा सुशिष्योपि गुरुभ्यः श्रुतज्ञानं पिबति गृह्णाति । न तु तान् जात्युद्घटनादिना दुनोतीति । बिडाल्युदाहरणमाह । छड्डेउं भूमीए खीरं जह पियइ दुट्टमज्जारी। परिमुट्ठियाण पासे सिक्खइ एवं विणयभंसी॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीरं भूमौ च्छईयित्वा पिबति न पुनस्तत्स्थं । तथा च सति न तत्तस्याः तथाविधं किञ्चित्पर्यवस्यति । एवं विनयाद् भ्रस्यतीति विनयभ्रंसी विनय करणभीरुः कुशिष्यो गोष्टामाहिलवत् परिषदुत्थितानां विन्ध्यादीनामिव पार्श्वे शिक्षते श्रुतं गृह्णाति । न तु गुरोः समीपे तद्विनय करणभयादिह चतुर्थो मार्जारीस्थानीयः कुशिष्यो भूमिकल्पास्तु परिषदुत्थिताः शिष्याः छर्दितदुग्धपानसदृशं तु तद्गतश्रवणमिति । जाहकोदाहरणमाह पाउं थोवं थोवं खीरं पासाईं जाहको लिहिइ । एमेव जियं काउं पुच्छइ मइमं न खेएइ ॥ 4था भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा जाहकः सेहुलको भाजनस्य पानि लेढि, पुनरपि च स्तोकं पीत्वा भाजनपार्थानि लेढ्येवं पुनः पुनस्तावत्करोति यावत्सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽग्रेतनं गृहीतं श्रुतं जितं परिचितं कृत्वा पुनरन्यद्गृह्णाति । एवं पुनः पुनस्तावद्विदधाति यावत्सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति । न च गुरुं खेदयतीति। - अथ गोदृष्टान्त उच्यते । तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययन निमित्तचरणशब्दवाच्येभ्यश्वतुभ्यो ब्राह्मणविशेषेभ्यो गौः प्रदत्ता ॥ प्रोक्ताश्च तेन ते ब्राह्मणाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy