________________
दुर्गपव्याख्या
रिक्तं न किञ्चिदस्ति । 'सुमुणियनिव्वाइ निच्चाइ निच्चमि ति गाथायां । यथा सवत्सा धेनुरितिधेनुर्दोग्धी तिर्यक स्त्री अजा वडवादिः सर्वाप्युच्यते । सचेतनस्य गुणाः पर्यायाश्च वाच्याः । अचेतनस्यापि वर्णादयः सहवर्त्तित्वाद् गुणा नवपुराणादयश्च तस्य क्रभभावित्वात्पर्यायाः । तदुक्तं - 'सहवत्ति गुणा कमवत्ति पज्जाया' । 'जीवति गुणनिरयाई, वण्णाइ पोग्गलगुणा, पज्जाया नव पुराणाई' | 'भाषाभिधेया अर्था' इत्यादिसूत्रस्य हि त्रयो व्याख्याप्रकारा भवन्ति । 'भाषाविभाषा - वार्त्तिकमिति । तत्र भाषा सुत्ते जो जं सुत्तालावगनिष्पन्नं धात्वर्थमात्रमेव भाषते स भाषको भण्यते । जया तस्स सुत्तस्स जो दोहिं वा पगारेहिं । अत्थपयाणि विभासह सो विभासगो भइ । जया सव्वपज्जवेहि अत्थं भासह तदा व्यक्तीकरणाद्वार्त्तिककरोऽभिधीयते । अत एवोक्तंभाषाभिधेया अर्थाः - अल्पभाषणविषया इत्यर्थः ॥ बहुबहुतरभाषण विषयास्त्वितरा इत्यमीषामयं विभागः । 'सुकुमाले' त्यादि गाथा | सुकुमालकोमलमतिमृदुतलं चरणाधोभागरूपं येषां ते तथा । तान् पादान् दूसगणिसत्कान् प्रणमामि । प्रशस्तलक्षणान् चक्र - च्छत्र - पद्म- ध्वज - चामर-पताकाशङ्ख - मीन -- श्रीवत्स - मन्दर - स्वस्तिक - कलश - वृषभ - सिंह, गज- प्रभृत्यन्यतरसामुद्रिकशास्त्राभिहितलक्षणोपेतान् प्रावचनिकास्तत्कालोचित प्रकृष्टागमवेत्तारः सूरयः । तेषां सम्बन्धिनो ये पठनार्थमागता अन्यगच्छीयास्साध्वस्ते प्रतीच्छका अभिधीयते । तैः प्रणिपातात् अनेन बाहुश्रुत्यमुक्तं । यद्वा तेषां प्रावचनिकानां दूसगणिनाम्नां सुकुमालादिविशेषणविशिष्टान् पादान् प्रणमामीति देववाचक इदमाह ॥ अनुयोजयतोपि श्रुतादिनोपकुर्वन्तोपि अयोग्यं जनं दयालवी न खलु भवन्ति । महीयासः कथंभूताः सन्तः ? न अवगतः परार्थसम्पादनोपायो यैस्तेऽनवगतपरार्थ सम्पादनोपायाः सन्तः । येन हि परार्थसम्पादने उपायो ज्ञातो भवति स एव दयालुर्भवति नेतरः । 'लाघवं चास्ये 'ति । लाघव हीलामस्याध्ययनश्रुतस्य असावयोग्यः सम्पादयति । तच्च महतेऽनर्थाय । यत उक्ते । "अप्रशान्तमतौं शास्त्रसद्भावप्रतिपादनं । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ धर्मशास्त्रार्थनाशः स्यात्प्रत्यवाय महान् भवेत् । रौद्रदुःखौघजनको दुःप्रयुक्तादिवौषधात् ॥ ' आमे' त्यादि । अल्पाधार, पात्र सिद्धान्तरहस्यं कर्तृ विनाशयति । धर्मादेशयति । यथाऽपक्वघटनिक्षितं जलं तमेव घटं विनाशयति । स्वरूपाभ्रंशयति । 'तत्राधिकृतगाथामि' ति । 'सेलघणकुडगचालणी' त्यादि प्रागुपन्यस्तं । विनेयजनानुग्रहायैवैनां सभाष्यां व्याख्यानयामः संप्रत्येव वयं ॥ तथथा सेलघणगाहायां, सैलत्ति, मुद्गशैलः पाषाणविशेषः । घनो मेघः मुद्रशैलश्च घनश्च तदुदाहरणं प्रथमं । कुटो - घटः । चालनी प्रतीता । परिपूणकः सुघरीचिटिकागृह, हंस-महिष-मशक - जलौका - बिडालाः प्रतीताः । जाइकः । सेहुलकः गौः भेरीमा भेरी चेति । योग्यायोग्यशिष्यविषयाणि चतुर्दश तान्युदाहरणानि इति प्रकृतिभाषा सक्षेपार्थः उदाहरणं । तद्विविधं भवति । चरितं कल्पितं च । तच्चेह प्रथमं कल्पितमुदाहरणम् एतच्च भाष्यकारो विवृण्वन्नाह ।
M
SISTER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org