________________
मंदीसत्र-टीकायाः मीसा या गम्भवसही संवुड विवडा य वंसपत्ताइ ।
सीओसिपाहमेया अणेगहा जोणिमेयाभो ॥१॥ 'मिस्सत्तं जोणीहा सुक्कम.....चेयणं रुहिरां महवा सुक्क रुहिरं अचेयणं सचेयणा जोणी' एवं मिश्रत्वं तिर्यग्मनुष्यस्त्रीणां तथा । 'अचित्ता खलु जोणी नेरइयाणं तहेव देवा। मीसा गम्भवसही तिविहा जोणी उ सेसाणं' । तिर्यग्मनुष्यगर्भजव्यतिरिकानां सम्मू
माता मनुष्याणां । यथा गोकृम्यादीनां सचित्ता । काष्ठघुणादीनामचित्ता गोकृम्यादीनामेव केपाश्चित् पूर्वकृतकृते समुद्भवतां मिश्रेति नवविधत्वं तथा 'सीओसिणजोणीया । सव्वे देवा य गम्भंवकती । उसिणा य तेउकाए । दुह नरए तिविह सेसाणं' । शीतोष्णयोनिकाः सर्वे देवाः । गर्भजास्तिर्यग्मनुष्याश्च तेजःकायिका उष्णयोनिकाः । नारकाणां द्विधा योनिः । तत्राधा पृथिवीत्रयोत्पत्तीनां प्रकृष्टोष्णा । चतुर्थ्यां क्वचिन्नरके उष्णाः क्वचिच्छीताः । अन्त्यपृथिवीत्रये तु शीता । सम्मूर्च्छ. नजतिर्यग्मनुष्यपृथिव्यादीनां क्वचिच्छीता क्वचिदुष्णा क्वचिन्मिश्रा ॥ तथा संवृता-प्रच्छन्ना, विवृताप्रकरा- गोमयादिका संवृतविवृता-प्रच्छन्नप्रकाशा। तत्र एगिदिय नेरइयाधकाः (१)। ['ते उण दुसमयठिहतस्स बंधगा ण उण संपरायस्से] त्यादिबन्धवेदनारूपद्विसमयस्थितिकस्येत्यर्थः । न पुनः साम्परायिकाः तस्य कषायनिमित्तस्य बन्धकाः, तेषां कषायाभावात् । बाह्या भ्रामिः चक्रधारा नेमिरित्यर्थः। 'चरकादि भिरिति' आदिग्रहणाच्चीरिकादिग्रहस्तत्र धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः । यद्वा ये भुजानाश्चरन्ति ते चरकाः । रथ्यापतितचीरपरिधाना चीरिकाः । यद्वा येषां चीरमयमेव सर्वमुपकरणं ते चीरिकाः । सुप्रणिधानमेतदिति । सुष्टु प्रकर्षेण नियते आलम्बने धान-धरणं मनःप्रभृतीनामेकाग्रताकरणमभिधीयते । 'सज्झायसुनेमिघोसस्सेतिपाठापेक्षया' नेमिनिर्घोषो वेत्युक्तवान् । 'कर्णिका' बीजकोशरूपा पमसत्का मध्यगण्डिकाशब्दवाच्या । 'यथाशक्ति आप्राणोपरमात्तपश्चरंतीति [श्रमणाः] 'कपिलकणभिक्षाक्षपादादी'ति विशेषोऽयममीषामुक्तः । कवैशेष द्गत्वानि अनेपानां तुषोरस क्रमेणा धारिका धार धाम्रिरिचतुःप्रमाः साङ्ख्यमतप्रणेता (1) वेलत्ति-वेदिका जल्योरन्तरे यद्भमणं तल्लक्षणाद्धि जलवृद्धिलक्षणा वा वेदिकापर्यवसाना मर्यादा वा। 'चित्तक्डस्स' त्ति । चिति संज्ञाने चित्यते संज्ञाने वस्तुयैस्तानि चित्तानि । 'उद्दरिय'त्ति, उदर्पिता इति व्याख्यातं । गुहास्तु समवाया इति । साधुवृन्दानि श्रुतरत्नप्ररूपणोपाश्रया वा गुहाः । संवरः प्रत्याख्यानरूपः । स एव बरः । 'उज्झरे' निज्झरणं । अम्भसां प्रसवः । रूपकं नाम गाथैकमात्रं च्छन्दोविशेषः । "विधिप्रतिषेधद्वारेणे'ति । 'जे जत्तियाउ हेऊ भवस्स ते चेव तत्तियामोक्खे' इति वचनात् , विधिरादरणीयः श्रेयपदार्थः मोक्षसाधकोऽपि भगवदादिकल्पः केषाश्चित् गुरुकर्मणां दूरभव्याऽभयानां गोशालकसङ्गमादीनां संसारहेतुर्भवति । प्रतिषेधाश्रयोप्यनादरणीयोऽपि कश्चित् हरिहरादिमिथ्यात्वगोचरः कस्यापि तदाचरणविमर्शादिना तत्परित्यागेन मोक्षहेतुर्भवति । इति निर्वृत्तिमार्गहेतुष्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org