SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [ द्वितीयः सतः शिवश्रिया मोक्षलक्ष्म्याः सङ्गमं मिलनमिच्छतोऽपि यद्विलम्बोऽभूत् । तत् असंस्तुते अपरिचिते, जने रिरंसया ३रन्तुमिच्छया मन्दतां जडतां को न दधाति, अपि तु सर्वकोऽपि दधात्येव ॥ ६४ ॥ ८० ध्रुवं शिवश्रीस्त्वयि रागिणी यतस्तटस्थितस्यापि भविष्यदीशितुः । असंस्पृशन्मारविकारजं रजः, स्वसौख्य सर्वस्वमदत्त ते चिरम् ॥ ६५ ॥ ध्रुवं हे नाथ ! ध्रुवं निश्चितं शिवश्रीः मोक्षलक्ष्मीस्त्वयि विषये रागिणी अनुरागवर्ती वर्तते, यतो यस्मात् कारणात्, ते तव तटस्थितस्यापि आसन्नस्थितस्यापि चिरं चिरकालं १२ खसौख्य सर्वखं आत्मीयसुखसर्वखं अदत्त । किंलक्षणस्य ते ? भविष्यदीशितुर्भाविभर्तुः । किं कुर्वन् ? खसौख्य सर्वखं मारविकारजं रजः विषयविकाराद्युत्पन्नरजः पापं धूलिं वा १५ असंस्पृशत् ॥ ६५ ॥ १८ अवाप्य सर्वार्थविमानमंतिकी - भवत्परब्रह्मपदस्तदध्वगः । यदागमस्त्वं पुनरत्र तद्भुवं, हितेच्छया भारतवर्षदेहिनाम् ॥ ६६ ॥ अवाप्य हे नाथ ! त्वं सर्वार्थविमानं अवाप्य प्राप्य, यत्पु२१ नरत्रागमः अत्रागतः । किंविशिष्टस्त्वं अन्तिकीभवत्परब्रह्मपदः समीपीभवन्मोक्षपदः । पुनः किंविशिष्टस्त्वम् ? तदध्वगस्तस्य २३ मोक्षस्य पथिकः । तत् ध्रुवं निश्चितं भारतवर्षदेहिनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy