SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३८७ तथैष योगानुभवेन पूर्व भवे स्वहस्तेऽकृत मोक्षतत्त्वम् । खरूपवीक्षामदकर्मबन्धा त्रातुं यथाऽऽसत्स्यति तद्रयेण ॥४८॥ तथै० एष तव सुतः पूर्वभवे योगानुभावेन खहस्ते मोक्षतत्त्वं तथा अकृत यथा तत् मोक्षत्वं रयेण वेगेन खरूपवीक्षामद-६ कर्मबन्धात् त्रातुं रक्षितुं आसेत्स्यति आसन्नं भविष्यति ॥४८॥ एवं पुमर्थप्रथने समर्थः, प्रभानिधिनैःस्वनिरासनिष्ठः । पाल्यो महोास्तव पद्मराग, इव प्रयत्नान्न न गर्भगोऽयम् ॥ ४९ ॥ एवं० हे देवि ! एवं अमुना पूर्वोक्तप्रकारेण पुमर्थप्रथने १२ पुरुषार्थविस्तारे समर्थः प्रभानिधिः नैःखनिरासनिष्ठः दारिद्यनिराकरणतत्परः, एवंविधोऽयं गर्भगस्तव पुत्रः महोाः महापृथिव्याः पद्मराग इव प्रयत्नात् महोद्यमात् न न पाल्य-१५ अपि तु पालनीय एव ॥ ४९॥ गीर्वाणलोकेऽसि यथा गरीयां स्तथा नृलोके भविता सुतस्ते । वयस्थ एवात्र सहग्वयस्या, सम्पर्कसौख्यानि गमी ममात्मा ॥५०॥ ' गीर्वा० अहं गीर्वाणलोके देवलोके यथा गरीयानस्मि तथा नृलोके मनुष्यलोके तव सुतो गरीयान् भविता भवि-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy