________________
३८६
टीकया सहितम् [एकादशः सद्धर्मिकान् भोजयतोऽय भक्त्या
भक्तैर्विचित्रैः शरदां समुद्रान् । ३. भक्तेश्च भुक्तेश्च रसातिरेकं,
वक्तुं भविष्यत्यबुधा बुधाली ॥४६ ॥ सद्ध० हे देवि! अस्य तव सुतस्य सम्यक्त्वधारिणः १ सच्चित्तपरिहारिणः २ एकाहारिणः ३ ब्रह्मचारिणः ४ सत्यव्यवहारिणः ५ द्वादशव्रतधारिणः ६ ईदृग् षडरीयुक्तान् साधर्मिकान् सुश्रावकान् भक्त्या विचित्रैः शालिदालिपक्कान्न९घृतघोलाद्यैर्भक्तै रनैः शरदां वर्षाणां समुद्रात् कोटाकोटी.
भॊजयतः सतः भक्तेश्च अन्यत् भुक्तेश्च रसातिरेकं रसाधिक्यं वक्तुं जल्पितुं बुधाली विद्वत् श्रेणिरबुधा मूर्खा भविष्यति ॥४६॥
निवेशिते मूर्यमुना विहार
निमे मणिवर्णमये किरीटे।
न सुश्रु भर्ता किमुदारशोमां, १५ भूभृद्वरोऽष्टापदनामधेयः ॥४७॥
निवे. हे सुभु! अष्टापदनामधेयो भूभृद्वरः पर्वतः मुख्यः राजा वा उदारशोभां किं न भर्ती धरिष्यति अपि तु धरिष्य१८त्येव, क सति ! अमुना तव पुत्रेण विहारनिभेन प्रासादछलेन
मणिवर्णमये किरीटे मुकुटे मूर्ध्निमस्तके निवेशिते सति यत् उच्यते-"उत्सेधांगुलदीर्घयोजनमितं क्रोशत्रये चोच्छितं विस्तारे भरताधिराजविहितं गव्यूतमात्रोद्वरम् । एकाहर्निशवासनित्यविशदं कैलासभूषामणिं नाना सिंहनिषेधमुत्तममहं चैत्यं
स्तुवे सारदं ॥१॥" राजापि शिरसि मुकुटे निविशिते शोभां २७ प्रामोति मष्टापदेनापि प्रासादेन शोमा प्राप्तेति भावः ।। ४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org