________________
सर्गः] टीकया सहितम्
जहास यत्तब्यसने निशायां
कुमुदती तत् क्षमयांबभूव ॥७॥ बद्धां० कुमुद्रती कुमुदिनी निशायां रात्रौ यत् तव्यसनेन ३ तस्याः पंकजिन्याः कमलिन्या व्यसने कष्टे सतिं जहास हसितवती विकसिता वा, तत् क्षमयांबभूव, किं कृत्वा । दिवसप्राप्ल्या पंकजिनी कमलिनी जातश्रियं वीक्ष्य, किंलक्षणा कुमुद्वती? कोशमिषात् मुकुलमिषात् बद्धांजलियोजितहस्ता, पुनः किं० गतेनाऽस्तमित इनः खामी चन्द्रो भर्चा यस्याः सा गतेना ॥ ७॥
देहे न सेहे नलिनं यदिन्दु
पादोपघातं निशि तं ववाम । पराभवं सूरकराभिषङ्गे,
प्रगे हृदो निर्यदलिच्छलेन ॥८॥ देहे० नलिनं कर्तृपदं कमलं निशि रात्रौ यत् इन्दुपादोपघातं इन्दोश्चन्द्रस्य पादाः किरणाश्चरणा वा तेषां उपघातं देहे १५ न सेहे, प्रगे प्रभाते सूरकराभिषंगे सूर्यकिरणसंसर्गे हृदो निर्यदलिच्छलेन हृदयान्निर्गच्छत् भ्रमरमिषेण तं पराभवं च वामयति स्म ॥ ८॥
भित्त्वा तमः शैवलजालमंशु
मालिद्विपे स्फारकरे प्रविष्टे । आलीनपूर्वोऽपससार सद्यो,
वियत्तडागादुडुनीडजौघः ॥९॥ जै. कु. २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org