________________
सर्ग: ]
टीका सहितम्
३२५
न० तरुणिमशिल्पी यौवनरूपविज्ञानी अस्याः सुमङ्गलायाः स्तनाख्यं मण्डपद्वन्द्वं उच्चैरत्यर्थं यदि वक्षसो हृदयात् बहिर्न हि अकरिष्यत्, तत्तदा इह वक्षसि आनन्दयुग्मं कथं ३ अमास्यत्, किं कुर्वाणमानन्दयुग्मं ? लास्यस्य ताण्डवस्य लीलां दधानं, पुनः किंवि० प्रभुवचनसुताप्तिस्फीतं श्रीऋषभदेववचनं सुताप्तिश्च ताभ्यां प्रौढं ॥ ८० ॥
इति श्रीमदञ्च गच्छे कविचक्रवर्ति श्री जयशेखरसूरिविरचिते श्री जैनकुमारसंभवस्य तच्छिष्य श्री धर्मशेखरसूरिविरचितटीकायां श्रीमाणिक्यसुन्दर सूरिशोधितायां नवमसर्गव्याख्या समाप्ता ॥ ९ ॥
सर्गः 1
अथ दशमः
साथ नाथवदनारविन्दतो, वाङ्मरन्दमुपजीव्य निर्भरम् ।
उञ्जगार मृदुमंजुलां गिरं,
गौरवादिति सदालिवल्लभा ॥ १ ॥
साथ० अथानन्तरं सा सुमङ्गला गौरवात् मृदुमञ्जुलां सुकुमारां मनोज्ञां गिरं वाणीं उज्जगार उद्गिरति स्म, किंलक्षणा सुमङ्गला ? सदालिवल्लभा सदा सर्वदा आलयः सख्यः तासां १८ वल्लभा अभीष्टा अलिवल्लभा भ्रमरीसमाना, किं कृत्वा ? नाथवदनारविन्दतो खामिनो मुखकमलात् वाकारन्दं वचनमकरन्दं निर्भरं उपजीव्य ॥ १ ॥ लब्धवर्णजन कर्णकर्णिका, वाञ्छितार्थफलसिद्धिवर्णिका ।
Jain Education International
For Private & Personal Use Only
१२
१५
२१
२३
www.jainelibrary.org