SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०२ टीकया सहितम् [षष्ठः कलत्रयुक्तस्य अस्य भगवतो वपुः शरीरं विलोक्य दृष्ट्वा तमःश्यामिकया निरुद्धं, अन्धकारकालिम्ना व्याप्तं मुखं स्थाने ३ युक्तं दधौ बभार । किंविशिष्टं वपुः ? निशाभङ्गविशेषकान्ति, निशा हरिद्रा तस्या भङ्गः च्छेदस्तद्विशेषिणी सविशेषा कान्तिर्यस्य तत् निशाभङ्गरुचि, पक्षे निशाया रात्रेभंगे सति ६ विशेषकान्ति, अत्र शब्दच्छलमेव ज्ञेयम् ॥ २॥ अभुक्त भूतेशतनोर्विभूति, __ भौती तमोभिः स्फुटतारकौघा । ९ विभिन्नकालच्छविदन्तिदैत्य चर्मावृतेर्भूरिनरास्थिभाजः ॥ ३॥ अभु० भौती रात्रिभूतेशतनोरीश्वरस्य मूर्विभूति अभुक्त १२ सेवते स्म । किंविशिष्टा रात्रिः? तमोभिरन्धकारैरुपलक्षिता । यथा विशेषणे ( ) इति सूत्रे जटाभिस्तापसमपश्यदित्यादि । पुनः किंविशिष्टा ? स्फुटतारकौघा प्रकटतारा१५ समूहा । किंविशिष्टायास्तनोः ? विभिन्नकालच्छविदन्तिदैत्य चर्मावृतेः विशेषेण भिन्नः, कालः छविः कृष्णकान्तिः दन्ति. दैत्यवृतिः गजासुरचर्म तदेव आवृति आवरणं यस्याः सा । १८ तस्याः पुनः किंविशिष्टायाः? भूरिनरास्थिभाजः । कोऽर्थः रानेरन्धकारमेव दैत्यसत्कं कृष्णचर्मवृतिः, तारासमूहा मनुष्यास्थीनि, अतः कारणादीश्वरतनोरुपमानं, रात्रिरिति भावः ॥३॥ न्यास्यन्निशा तस्करपुंश्वलीनां, नेत्रेषु लोकाक्षिमहांसि हत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy