________________
२०२
टीकया सहितम् [षष्ठः कलत्रयुक्तस्य अस्य भगवतो वपुः शरीरं विलोक्य दृष्ट्वा तमःश्यामिकया निरुद्धं, अन्धकारकालिम्ना व्याप्तं मुखं स्थाने ३ युक्तं दधौ बभार । किंविशिष्टं वपुः ? निशाभङ्गविशेषकान्ति, निशा हरिद्रा तस्या भङ्गः च्छेदस्तद्विशेषिणी सविशेषा कान्तिर्यस्य तत् निशाभङ्गरुचि, पक्षे निशाया रात्रेभंगे सति ६ विशेषकान्ति, अत्र शब्दच्छलमेव ज्ञेयम् ॥ २॥
अभुक्त भूतेशतनोर्विभूति,
__ भौती तमोभिः स्फुटतारकौघा । ९ विभिन्नकालच्छविदन्तिदैत्य
चर्मावृतेर्भूरिनरास्थिभाजः ॥ ३॥ अभु० भौती रात्रिभूतेशतनोरीश्वरस्य मूर्विभूति अभुक्त १२ सेवते स्म । किंविशिष्टा रात्रिः? तमोभिरन्धकारैरुपलक्षिता । यथा विशेषणे ( ) इति सूत्रे जटाभिस्तापसमपश्यदित्यादि । पुनः किंविशिष्टा ? स्फुटतारकौघा प्रकटतारा१५ समूहा । किंविशिष्टायास्तनोः ? विभिन्नकालच्छविदन्तिदैत्य
चर्मावृतेः विशेषेण भिन्नः, कालः छविः कृष्णकान्तिः दन्ति.
दैत्यवृतिः गजासुरचर्म तदेव आवृति आवरणं यस्याः सा । १८ तस्याः पुनः किंविशिष्टायाः? भूरिनरास्थिभाजः । कोऽर्थः
रानेरन्धकारमेव दैत्यसत्कं कृष्णचर्मवृतिः, तारासमूहा मनुष्यास्थीनि, अतः कारणादीश्वरतनोरुपमानं, रात्रिरिति भावः ॥३॥
न्यास्यन्निशा तस्करपुंश्वलीनां,
नेत्रेषु लोकाक्षिमहांसि हत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org