SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् तन्मन्येऽखिलजन्ममृत्युहरणो देवाधिदेवो जिनो देवेष्वन्यतरेषु राजति यतो नेदं स्वरूपं क्षितौ ॥१॥-शार्दूल. यस्यैकत्र तटे नवापि निधयः कल्पद्रुमाः कोणके स्वर्गक्षोणिरसातलेन्द्रपदवी श्रीश्च प्रदेशे कचित् । असे यस्य वसन्ति दैवतवराः सार्ध महासिद्धिभिः ___ सद्धर्माख्यनिधिं बुधाः! कुरुत तं किं वः प्रयासैः परैः ? ॥२॥"-शार्दूल. इति निशम्य विप्रस्य मनो ध्वनितं, ततो जिनसाधुजैनधर्मयोरपि स्वरूपं कथितम् । तदा लघुकर्मत्वात् प्रतिबोधं प्राप्तः परमजैनश्रावको जातो ज्ञातनवतत्त्वः सकलजैनशास्त्रवित् साधुजनसेवाकारकः मिथ्यात्वभ्रान्तिनिवारकः। तद्भार्याऽपि जैनी जाता। एकदा व्याख्याने सूरिमुखात् सौभाग्यपञ्चमीतपस्तः सौभाग्यरोहिणीतपस्तः पतिवल्लभमित्यादितपोमाहात्म्यं श्रुत्वा दम्पतीभ्यां सकलतपांसि कृतानि उद्यापनकादिविधिसहितानि श्री'शत्रुञ्जया'दितीर्थयात्रा नित्यं गृहजिनदेवपूजास्तुतिरित्यादि सुकृतानि साधुभ्यो दानानि कृत्वा परमभोगफलं बबन्ध । तत्रैका प्रातिवेश्मिका वनीनाम्नी परिवसति, धर्मलेशमपि न करोति । दिवाऽनिशमजावत् सर्वभक्षा । तयोस्तपोदानसुकतानि दृष्ट्वा सा हसति दुर्भगत्वकर्म सा च बनाति स्म । ततः कालेन मृत्वा शास्त्रप्रियः 'मथुरायां' श्रेष्ठिचन्दिलस्य धनाढ्यस्य पद्माभार्यायां पुत्रत्वेन समुत्पन्नो भानुनामा बभूव । तस्यामेव नगर्या गुणवती मृत्वा महकिकमलाख्यश्रेष्ठिनः सुन्दरीनाम्न्यां भार्यायां पुत्री बभूव । सा च नाना मनोरमा पित्रोरतीव वल्लभा जाता । अथ भानुयौवनं प्राप्तः । मनोरमाऽपि यौवनं प्राप्ता । एकदा जिनमन्दिरे समागतौ तौ परस्परविलोकनेन जातजातिसरणेन दृष्टपूर्वभवौ जातमिथोऽनुरागौ जातौ । ततः पूर्वध(भ)वज्ञापनार्थ विनोदाथं च मनोरमा पपाठ "कमलदलसुनेत्रो हारविस्तीर्णतोयः स्तनतटयुगहंसो रोमराजीतरङ्गः । चलनगतिगजेन्द्रः शर्वरीपूर्णचन्द्रो नुरिह जगति सेव्यः कस्य सुखीतटाकः ॥१॥"-मालिनी इति निशम्य भानुः प्राह "विमलगिरिमुखानां निर्मिता येन यात्रा विशदचरणभृद्भ्यः पुण्यदानं प्रदत्तम् । सितकुसुमसुगन्धैश्वार्चितः पूर्वमहेन् नुरिह जगति सेव्यस्तस्य सुस्त्रीतटाकः ॥२॥"-मालिनी १ पुरुषस्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy