________________
३१
श्रीभावप्रभसरिकृतम् सन् खड्नेन तस्यैकं पादं चिच्छेद । पुनर्हन्तुकामोऽनुचरैनिषिद्धः अवध्योऽस्तीति । भूपेन ज्ञातं तत् । हा तपस्वी निरपराधो हतः, त्रिपादैः क्लेशेन गमनं कृत्वाऽपराधस्थ(स्त)म्भमास्थितोऽस्तीति । ततो राज्ञा समादिष्टम्-कुमारोऽयं हन्यतामिति । जैनधर्मबुधाऽमात्येन भूपचक्षुर्विषयं त्यक्त्वा व. ध्यमण्डनव्याजादेकस्थाने कथाव्याख्यानसमयं कुमारो नीतः । मृगध्वज! त्वया हिंसाफलं प्रत्यक्षं दृष्टं, शृणु सप्तनरकेषु घोरदुःखेषु दशविधवेदनाकथनेनाशुचिदुर्गन्धक्लिन्नगात्रमारणताडनादिविस्तारम् । ततः श्रावणानन्तरं जातजातिस्मरणः कुमारो बभूव । जैनागमोक्तं सत्यं संभावयति स्म । प्रधानेन प्रोक्तम्-हे कुमार ! सर्वज्ञेन नैमिनाम्ना जिनेन चतुर्गतिसंसार ईदृशो भणितः, यत्र सुखं नास्ति । कुमारेण गदितम्-हे अमात्य ! सोऽनुभूतो ज्ञातो मयाऽधुनेति । ततः कुमारः प्रव्रज्यां ग्रहीतुं लोचं कर्तुं प्रवृत्तः । ततोऽमात्येन निजभण्डारत आनीय रजोहरणं पात्रं पात्रनियोगं कुमाराय समर्पितं कथितं च-कुमार! त्वं सीमन्धरस्थानगारस्य शिष्य इति । कारितसामायिकः श्वेताम्बरः सुसाधुमुद्राधारको राज्ञः समीपं नीयमानो दृ(दि?)ट्याऽऽगतः। राज्ञा प्रोक्तम्-अहो तेजस्वी सूर्य इव सौम्यमूर्तिः सोम इव दृश्यते । तदा सचिवेन भणितम्-स्वामिन् ! श्रमणो वध्यः ? भूपेन प्रोचे-अवध्य इति । कुमारोऽपि श्रमणरूपी नृपपार्श्व गतः। उपलक्षितो राज्ञा बाष्पजलभरलोचनेन कथितं च-अहो अमात्यबुद्धिः, ममाज्ञाभङ्गो रक्षितो मरणात् कुमारोऽपि । राज्ञा प्रोक्तम्-राज्यं गृहाण । कुमारेणोक्तम्-मम संसारेणाऽलम् । ततो निष्क्रमणोत्सवेन सीमन्धरस्य साधोः शिष्योऽजायत स्म । ततः प्रधानेन भद्रकसमीपमागत्य प्रतिबोध्य निष्कपायीकृतः । यतः
"व्यसनशतगतानां क्लेशरोगातुराणां
मरणभयगतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलानां जनानां
___ शरणमशरणानां नित्यमेको हि धर्मः॥१॥"-मालिनी ततोऽनशनं कृत्वाऽष्टादशदिवसे कालं पाप भद्रकः । मृगध्वजर्षिरपि कालक्रमेण केवलज्ञानं प्रापत् । जितशत्रू राजाऽपि सपरिवारस्तत्रागच्छत् , देशनान्ते पप्रच्छ-हे भगवन् ! स भद्रकमहिषः कस्यां गतौ गतः? । केवलिना कथितम्-स उपशान्तो नमस्कारपरिणतो भद्रको मृत्वा चमरस्यासुरस्य महिषानीकाधिपतिलोहिताक्षदेवोजनि । मम च ज्ञानोत्पत्तिं ज्ञाखा हृष्ट एष वन्दितुमागतः स्थितो वर्तते । राज्ञा पृष्टम्-कोत्र वैरानुबन्धः ? । केवली जगौ-शृणुत, अत्र भरतेऽश्वग्रीवः प्रतिवासुदेवोऽभवत् । तस्य हरिश्मश्रुनामाऽमात्योऽजनि । परं स नास्तिकवादी । यतः
१ दीनः। २ अन्यायपूत्कारकरणस्तम्भम् । ३ जैनधर्म बोधतीति जैनधर्मबुद् , तेन; जैनधर्मविदा इत्यर्थः । १ एकविंशतितमतीर्थङ्करेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org