________________
श्रीजैनधर्मवरस्तोत्रम् અર્થિ-વાચકજનને વ્યથા–પીડાને પાર પમાડે તેહનું નિદાન–કારણ એહવું દાન છે જેહનું અને નકાર કહિતાં નથી એહ જે નાકારો તેહનું કારાગૃહ કહિતા બંદિષાણું છે, એહવું જે ચિત્ત તેહનૈ વિષે વૃત્તિ-વ્યાપાર છે જેહનો અને દેવા ગ્ય અદેવા ગ્ય પિતાનું પારકું એહવે ભેદે રહિત એહ જે દાતારી પુરૂષ તેહિને વિમુક્ત કહિતાં નિઃસ્પૃહ જે योगीन्द्र सरीषाने पशु [] मानव-स२१॥ योग्य छ-प्रशंसा योग्य (छै).
॥ इति दातृलक्षणं सामान्यम् ॥ अथ काव्यम्
"धर्मो हि जीवः शुभशर्मलक्ष्म्या
धर्मस्य जीवः खलु जीवरक्षा। सर्वप्रकारैस्तदियं प्रपाल्या
धर्म विना नैव शुभोपलब्धिः ॥१॥"-इन्द्रवत्रा अथात्र अभयादिदानाधिकारे जैनो वेत्ति नापरः, अतो जैनमत्रिदृष्टान्तमाह-- 'श्रावस्ती नगरे जितशत्रुनामा राजा । तस्य कीर्तिमती देवी । तयोः पुत्रः मृगध्वजनामा कुमारो विनीतो विचक्षणोऽस्ति । तस्मिन्नेव पुरे राज्ञो वल्लभः कामदेवनामा श्रेष्ठी शरत्काले निजगोकुले गतः । गोपाधिपेन दण्डकेन नाम्ना सङ्केतित एको महिषः शीघ्रं श्रेष्ठिसमीपमाजगाम । गोपेन प्रोक्तः-भो महिष! मम तव च वाम्ययं समागतः । ततो महिपः श्रेष्ठिपादयुगे विनयेन पतितोऽग्रजिहां विस्तारयन् स्थितः। श्रेष्ठिना गोपः पृष्टः-किमिदम् । ततो गोपोऽवदत्-स्वामिन् ! साधुवचनेन मरणभीरोमहिषस्य मया अभयं दत्तम् । इदानीं युष्माकं समीपेऽभयं याचत्ययम् । श्रेष्ठिना चिन्तितम्-अहो तिर्यग्जातिरपि वराक एप जीवितप्रियो जातिस्मरणो विद्यते, अतो मयाऽपि तेऽभयं दत्तम् । विहर यथेष्टं गोकुले । श्रेष्ठिनाऽप्युक्ते सति ततः श्रेष्ठिचरणाद् भद्रकमहिप उत्थितः । श्रेष्ठी स्वगृहं समेतः। भद्रकमहिषोऽपि श्रेष्ठिकिङ्करैर्निवार्यमाणोऽपि श्रेष्ठ्यनुज्ञया पृष्ठसंलग्न आगतवान् । ततः श्रेष्ठी कौटुम्बिकनरान् प्राह-भो जातिवल्लभ ! किशोरस्य या वृत्तिः सा तावती भद्रकमहिषस्यापि देया । पुत्रवत् पालयति । श्रेष्ठी एकदा राजसमीपं गच्छति स्म । महिषोऽपि श्रेष्ठिना सह गतः, राज्ञः चरणे पतितः । राज्ञा पृष्टम्-किमिदं ? किमर्थम् ? । श्रेष्ठी भूपं प्राह-अयं भद्रको भवतां पार्श्वेऽभयं मार्गति । राज्ञोक्तम्-दत्तं, हे भद्रकलुलाय! यथेष्टं विचर वने पुरे वा । राज्ञा पुरे सर्वत्रोद्घोषणा कारापिता-योऽस्य महस्यानिष्टं करिष्यति, स राज्ञो वध्यो ज्येष्ठपुत्रोऽपि । ततो नृपस्य प्रणामं कृत्वा राजभवनानिर्गतो जने च प्रकाशो जातः सत्यं भद्रक इति । नगरडिम्भास्तं समारूढाः क्रीडां कुर्वन्ति । आलेख्यमय इव तेषां संदेशभीरुको जातः । एवं व्रजति काले एकदा उद्यानादागच्छन् मृगध्वजकुमारस्तं भद्रकं सञ्चरमाणं दृष्ट्वा सञ्जातरोषः
१ आजीविका । २ महिष!
३ महिषस्य । ५ महिषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org