________________
१९
श्रीभावप्रभसरिकृतम् द्वेष्यः प्रेष्यो दरिद्रो विगतसुखलवो निष्फलारम्भकर्ता __ भूयो भूयश्चिराय भ्रमति भववने शाठ्यदोषेण देही ॥१॥-स्रग्धरा विधाय मायां विविधैरुपायैः
परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ते त्रिदिवापवर्गसुखान्ममहामोहसखाः खमेव ॥२॥"-उप०
-(सिन्दूरप्रकरे श्लो० ५४) अथ लोभमाह
"यद् दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं
गाहन्ते गहनं समुद्रमथनं क्लेशं (समुद्रमतनुक्लेशां ?) कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं सर्पन्ति पंधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ १॥"-शार्दूल.
-(सिन्दूरप्रकरे श्लो० ५७) अथ दीक्षामाह
"एकाहमपि यो दीक्षा-मादत्ते पारमेश्वरीम् ।
अनन्यमनसा धन्यः, सोऽपि याति सुरालयम् ॥१॥"-अनु० अथ शुद्धव्यवहारं विना एकान्तनिश्चयनैरर्थक्यमाह
"जेइ जिणमयं पवजह, ता मा ववहारमोयणं कुणह । ववहारनउच्छेए, तित्थुच्छेओ कओ तेण ॥ १॥-आर्या ववहारोवि हु बलवं जं छउमत्थंपि वन्दए अरिहा । आहाकम्मं भुजइ सुयनयमयं पमाणतो ॥२॥"-आर्या
१ दासः। २ मायापराधेन । ३ स्रग्धरा-लक्षणम्
"म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ।" इदं संयोजनीयं षष्ठेऽपि पृष्ठे । ४ युद्धम् । ५ छाया
यदि जिनमतं प्रपद्यध्वं तर्हि मा व्यवहारमोचनं कुरुत । व्यवहारनयोच्छेदे तीर्थोच्छेदः कृतः तेन ॥ व्यवहारोऽपि खलु बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन (केवली)। आधाकर्म भुङ्क्ते श्रुतनयमतं प्रमाणयन् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org