SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् तपः सर्वाक्षसारङ्ग-वशीकरणवागुरा । कषायातापमृद्वीका, कर्माजीर्णहरीतकी ॥ २॥"-अनु० अथ भावनामाह "कृषौ सुवातः किल वृद्धिहेतुः शिशौ स्वमातुर्गुरुपक्षपातः। राज्ये सुनीतिः प्रणये प्रतीतिः तथाहि धर्मे शुभभावना तु ॥ १॥-उपजातिः भावण सा का भावीइ, जा भावी भरहेण । रज करंतइ संधरुद्धरु (?) किउ कम्मखउ जेण ॥२॥" अथो क्रोधमाह "क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः। वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥१॥"-आर्या -(प्रशमरतौ श्लो० २६) अथ मानमाह "वर्ष यावत् केवलज्ञानलक्ष्मी लाभं यन्नो बाहुबल्याप पूर्वम् । रामात् संख्ये यच्च लङ्केश्वरेण प्रापे मृत्युः कारणं तत्र मानः ॥ १॥-शालिनी विमुश्च मानं मनसाऽपि दुष्टं मानेन लङ्काधिपतिर्विनष्टः । पैरासुरासीन सुयोधनः किं ? दुःखं स्थितो बाहुबलिन वर्षम् ॥ २॥"-उप० अथ मायामाह "तिर्यक्षु क्षामकुक्षिर्वहति गुरुभरं प्राजनादिप्रणुन्नो योषित्त्वं भूरिदुःखं भजति नरगतौ पङ्गतां कुजतां वा। १छाया भावना सा का भाव्येत या भाविता भरतेन । राज्यं कुर्वता.........कृतः कर्मक्षयो येन ॥ २ सधरुद्धरु'स्थाने 'सघरु' स्यात् । ३ युद्धे । ४परागता असवो यस्य सः, गतप्राणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy