SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् को धर्मः । तमाह "कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं । दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् । तप्यं शुद्धं स्वभक्त्या तप इह महती भावना भावनीया श्राद्धानामेष धर्मो जिनपतिगदितः पूतनिर्वाणमार्गः॥१॥"-सग्० ततः प्रथमं पूजायां फलमाह "पूजया भवति राज्यमूर्जितं पूजया भवति निर्मला मतिः। पूजया भवति नाकवैभवं पूजया भवति निर्वृतिः क्रमात् ॥१॥"-रथोद्धता अथ दानम् "वसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानं, दानाभरणं सुपात्रं च ॥१॥"-आर्या० श्रेयांसेन यदर्जितं सुकृतिना पुण्यं युगादेर्जिनात् __ श्रीवीराद् दधिवाहनस्य सुतया यच्चापि तत्वज्ञया । मासान्ते मुनिसत्तमाद् यदमलं श्रीसङ्गमेनाधुना तत् ते भद्र ! विशुद्धवासन ! सदा श्रेयः समागच्छतु ॥२॥-शार्दूल. राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः संतुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् प्रत्यग्रेचरसेन पूर्णमृषभः पायादपायाजिनः ॥३॥-शार्दूल० साकं जानपदैः समं परिजनैः सार्ध कुटुम्बेन च श्रेयांसे घटकोटिभिः सुरसरित्पूरोत्तरं वर्षति । पायादिक्षुरसः प्रभोः करतले कल्लोलकोलाहलै र्नावि प्रत्युत संस्थितोऽमृतमयः साक्षादिवाम्भोनिधिः॥४॥-शार्दूल० अपि यदि रविबिम्बचुम्बिचूल स्तदपि न बिन्दुरपि स्रवत्यधस्तात् । १ रथोद्धता-लक्षणम् - "रात्परैर्नरलगै रथोद्धता।" २ आपि प्राप्तमित्यर्थः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy