________________
श्रीभावप्रभवरिकृतम् मनोहरम् । पुनः कथं० चै० ? 'कलितकलिकलापशृङ्ख' कलिताः-कलां प्राप्ताः कैकिना-मयूराणां कलापाः-समूहा यसिन् तत् एवंविधं शृङ्गं यस तत् । हि-निश्चितं माः मनुष्याः मङ्घशीघ्र मुदं-हर्ष दधति-विभ्रति । किं कृत्वा ? यत् चैत्यं वीक्ष्य-दृष्ट्वा । किमिव ? चामीकरादिशिरसि-'मेरु'गिरिशृङ्गे नवाम्बुवाह-नूतनमेघमिव दृष्ट्वा । चैत्यस्य मेरूपमानं शृङ्गस्य मेघोपमानम् । यतः श्री'शत्रुञ्जये' भरतेन चैत्यं कारितं तथा 'अष्टापदे' च चैत्यस्तूपाः कारिताः। यदुक्तं आगमे (सिद्धस्तवेत्यपरनाम्नि सिद्धाणंबुद्धाणंसूत्रे गा० ५)-"चत्तारि अट्ठ दस दो इ(अ) वंदिया" इत्यादि गाथा द्वादशार्था । इति त्रयोविंशतितमवृत्तस्यार्थः ॥ २३ ॥
अथ भरतप्रभृतित एव तीर्थादिसेवनं दर्शयन्नाहसूत्रम्
शत्रुञ्जयः शमधनाः शमता च शान्तिः
शत्रुञ्जयाह्नयतपः सकलं दुरापम् ? । एतच्छपञ्चकजुषोऽस्ति नरस्य या भा
नीराग ! तां ब्रजति को न सचेतनोऽपि ॥ २४॥ . व्याख्या-शत्रुञ्जय इति । हे नीराग! हे निर्गतसंसाराभिलाष ! अथवा हे निक्लेश! "रागः स्याल्लोहितादिषु ॥ गन्धा(गन्धारादौ क्लेशादिकोऽ)नुरागे मत्सरे नृपे" इति हैमः (का० २, श्लो० ६०-६१) । एतत् सकलं दुरापं-दुर्लभं वर्तते । एतत् किं तदाह-शत्रुञ्जयःसिद्धाचलः शमधनाः-साधवः शमता-उपशान्तिः शान्तिः-(पोडशो) जिनः शत्रुञ्जयाह्वयतपःषष्ठाष्टमरूपं तप इति । यतः
"छंटेणं भत्तेणं अपाणएणं तु सत्त जत्ताओ। जो कुणई सित्तुंजे सो तइयभवे लहइ सिद्धिम् ॥१॥ “षष्ठाष्टमादितपसा, प्राप्यते फलमुत्तमम् । ततोत्र कार्य तचैव, विशेषात् सर्वकामदम् ॥१॥"
१छाया
चत्वारः अष्ट दश द्वौ च वन्दिताः। २'भरत(न)पप्रभृ०' इति क-पाठः। ३ 'याऽभा' इत्यपि सम्भवति । ४ छाया
षष्ठेन भक्तेन अपानकेन तु सप्त यात्राः । पःकरोति शत्रुक्षये स तृतीयभवे लभते सिदिम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org