________________
श्रीजैनधर्मवरस्तोत्रम् वताः । ननु विहारा एव जिनस्य निवासाः "चैत्यविहारौ जिनसमनि" इत्यभिधानचिन्तामणि(का०४, श्लो० ६० )वचनात् । तर्हि कथं भागवता इति विशेषणेन पुनरुक्तषणम् ? उच्यते-नहि दूषणम् , यतः विशेषणपृथक्त्वे विशेष्यमात्रपरता इति । उक्तं च रघुवंशे (स० २, श्लो० १२, ७३)-"सकीचकारुतपूर्णरन्धैः" इति । कथंभूतैः श्राद्धैः१ दिग्गजैः-दिशां गजसमानैः। पुनः कथं० श्राद्धैः ? 'द्रविणदानधनैः' द्रविणदानेन धनाः-मेघा इव तैः । कथं० विहाराः? उदाराः-प्रधानाः च-पुनः ये श्राद्धाः अत्र चैत्येषु पतितं शृङ्गभित्यादिकं सृजन्तिनवीनं कुर्वन्ति । कथं० १ ये रक्षणतत्पराः-सम्भालनादिषु आसक्ताः । नूनं-निश्चितं खलु । यतः ते श्राद्धाः ऊर्ध्वगतयः-स्वर्गादिगतिभाजो भवन्ति । यतः
"नूतनाहद्वरावास-विधाने यत् फलं भवेत् ।
तसादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ॥१॥"-अनु० . कथं० १ ते (शुद्धभावाः)-निर्मलाशयाः, पवित्रचित्ता इति । यतः 'प्राग्वाट'ज्ञातीयश्रीधरणकसाधुकारो 'राणकपुरे' श्रीऋषभजिनेश्वरत्रलोक्यदीपकचैत्यं कारयति स । श्री सिद्धाचले' दम्पतीभ्यां च चतुर्थव्रतमादाय माला परिहिता इति । अथ पुनः विमलमत्री अम्बिकादत्तवरो'ऽर्बुदा'चलादिस्थाने चैत्यानि कारयति स इति । पुनः वस्तुपाल-तेजःपालौ 'अर्बुदा'चले लुणगवसही तथा बहूनि चैत्यानि प्रतिबिम्बानि धर्मस्थानानि च सङ्घादिधर्मकार्याणि च कारयामासतुः । इत्यादयो बहवः श्रावकाः जैनप्रासादकारकाः जीर्णोद्धारकारका अभ(भू?)वन् भवन्ति (भविष्यन्ति) चेति । इति द्वाविंशतितमवृत्तस्यार्थः ॥२२॥
अथ भरतचक्रिप्रभृतितश्चैत्यकारापणं दर्शयन्नाहसूत्रम्
चैत्यं सुवर्णभरितं भरतेन भव्यं __ निर्मापितं कलितकेकिकलापशृङ्गम् । यद् वीक्ष्य मङ्गु दधति स्म मुदं हि मां
श्चामीकरादिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ व्याख्या-चैत्यमिति । भरतेन-भरतचक्रिणा-ऋषभपुत्रेण चैत्यं निर्मापितं-कारितम । कथंभूतं चैत्यम् ? सुवर्णभरितं-सुवर्णेन भरितं-पूरितं, रचितमित्यर्थः । कथं० चैत्यम् ? (भव्यं-)
१ 'नव्यं' इति पाठः श्रीजैनस्तोन्नसङ्ग्रहनाम्नि मुद्रिते प्रन्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org