________________
१९०
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । ___ यत्खलु शरीरशरीरिसंयोगेन स्पर्शरसगंधवर्णगुणत्वाच्छन्दत्वसंस्थानसङ्घातादिपायपरिणतत्वाच्च, इन्द्रियग्रहणयोग्यं तत्पुद्गलद्रव्यम् । यत्पुनरस्पर्शरसगंधवर्णगुणत्वादशब्दत्वादैनिर्दिष्टसंस्थानत्वादव्यक्तत्वादिपर्यायैः परिणत्वाच्च नेन्द्रियग्रहणयोग्यम् , तच्चेतनागुणत्वात् रूपिभ्योऽरूपिभ्यश्चाजीवेभ्यो विशिष्टं जीवद्रव्यम् । एवमिह जीवाजीवयोर्द्वयोर्वास्तवो मेदः न्द्रियरूपो न भवति तेनैव जिह्वाद्रव्येन्द्रियेण करणभूतेन परेषां स्वस्य वा रसवत्परिच्छेद्यो न भवति निश्चयेन येन स्वयं द्रव्येन्द्रियेन रसपाहको न भवतोति । निश्चयेन यः प्राहको न भवतीति सर्वत्र संबंधनीयः। तथा रसास्वादपरिच्छेदकं झायोपशमिकं यद्भावेन्द्रियं तद्रपो न भवति तेनैव भावेन्द्रियेण करणभूतेन परेषां स्वस्य वा रसवत्परिच्छेद्यो न भवति पुनस्तेनैव भावेन्द्रियेण रसपरिच्छेदको न भवति । तथैव सकलपाहकाखंडैकप्रतिभासमयं यत्केवलज्ञानं तद्रपत्वात् पूर्वोक्तं रसास्वादकं यद्भावेन्द्रियं तस्मात्कारणभूतादुत्पन्नं यत्कार्यभूतं रसपरिच्छित्तिमात्रं खंडवानं तद्रपो न भवति तथैव च रसं जानाति रसरूपेण तन्मयो न भवतीत्यरसः । अनेन प्रकारेण यथासंभवं रूपगंधशब्दविषयेषु तथाचाध्याहारं कृत्वा स्पर्शविषये च योजनीयं अव्वत्तं यथा क्रोधादिकषायचक्रं मिथ्यात्वरागादिपरिणतमनसां निर्मलस्वरूपोपलब्धिरहितानां व्यक्तिमायाति तथा परमात्मा नायातीत्यव्यक्तः । असंठाणं वृत्तचतुरस्रादिसकलसंस्थानरहिताखण्डैकप्रतिभासमयपरमात्मरूपत्वात् पौद्गलिककर्मोदयजनितसमचतुरस्रादिषट्संस्थानरहितत्वादसंस्थानं अलिंगग्गहणं यद्यप्यनुमानेन लक्षणेन परोक्षज्ञानेन व्यवहारनयेन धूमादग्निवदशुद्धात्मा ज्ञायते तथापि रागादिविकल्परहितस्वसंवेदनज्ञानसमुत्पन्नपरमानंदरूपानाकुलत्वसुस्थितवास्तवसुखामृतजलेन पूर्णकलशवत्सर्वप्रदेशेषु भरितावस्थानां परमयोगिनां यथा शुद्धात्मा प्रत्यक्षो भवति तथेतराणां न भवतीत्यलिंगग्रहणः, चेदणागुणं “यत्सर्वाणि चराचराणि विविधद्रव्याणि तेषां रहित [ अलिंगग्रहणं ] इन्द्रियादि चिह्नोंसे ग्रहण करनेमें नहीं आवे ऐसा [ अनिर्दिष्टसंस्थानं ] निराकार [ जानीहि ] जानो । भावार्थ-अनादि मिथ्या वासनासे यह आत्मद्रव्य पुद्गलके संबंधसे विभावके कारण औरका और प्रतिभासा है, उस चिन् और जड़पन्थिके भेद दिखानेके लिये वीतराग सर्वज्ञने पुद्गल जीवका लक्षणभेद कहा है। उस भेदको जो जीव जान करके भेदविज्ञानी अनुभवी होते हैं वे मोक्षमार्गको साधकर निराकुल मुखके भोक्ता होते हैं, इस कारण जीवपुद्गलका लक्षणभेद दिखाया जाता है कि जो आत्मशरीर इन दोनोंके संबंध स्पर्श रस गंध वर्ण गुणात्मक हैं, शब्द संस्थान संहननादि मूर्तपर्यायरूपसे परिणत हैं और इन्द्रियग्रहण योग्य हैं सो सब पुद्गलद्रव्य हैं ।
१ शीर्यतेऽनेनात्मा तत् शरीरम् शरीरसंयोगे समचतुरस्रादिषु स्थानपर्यायपरिणतत्वात्. २ वजऋषभ. संहननादिपर्यायपरिणतं तदपि पुद्गलमेव । अतएव इन्द्रियपरिणतं तदपि पुद्गलमेव । अतएव इन्द्रियग्रहणयोग्यम्. ३ काररहितत्वात , अतएव चात्मनि बाकारो वर्धते. ४ ज्ञानस्य अगुरुलघुकैः पर्यायः परिणतत्वात्. ५ पुद्गलेभ्यः ६ धर्मादिभ्यः ७ वस्तुसंबंधी भेदः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org