SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् वस्तुपालस्तुतिकाव्यानि। स्वस्ति श्रीवस्तुपालाय, बभौ यहुद्धिसुभ्रवः । क्रोडीकृताम्बरं रौप्याञ्जनभाजनवद् यशः ॥ १ ॥ अन्तःक्षारं रिपूणां घनमपि कवलीकृत्य तृष्णातुरेव, ___त्वत्कीर्तिर्नाऽऽप तृप्तिं भुवि सचिव ! जवात् क्षीरनीराकरेऽपि । तस्मादाकाश-नाकोरगनगरचरस्वधुनीपानहेतोः, सर्वत्रापि त्रिलोकीहितचरित ! चिरं सम्भ्रमाद् बम्भ्रमीति ॥२॥ भवद्भुजभुजङ्गोऽसौ, वस्तुपाल ! द्विषां भये । असिं दधाति फूत्कारविषोद्गारसहोदराम् ॥३॥ औषधीशसखः सत्यं, वस्तुपालयशोभरः । येन प्रसर्पता पश्य, विश्वं मुक्तामयं कृतम् ॥४॥ शेषद्वेषविधायिनीमपि भवत्कीर्ति सुधासोदरां, श्रीमन्त्रीश ! मुखस्फुरद्विषभिदे गायन्ति नागागनाः । शम्भुः स्वाङ्गविरोधिनीमपि पुनर्नित्योपरोधादिमां, देवीर्गापयते विषाकुलगलश्यामत्वसंलुप्तये ॥५॥ कल्पद्रुप्रसवावतंसमधुपीझङ्कारलब्धोपमाः, कामं कामगवीनवीनपयसां पानेन तारस्वराः । ताश्चिन्तामणिरश्मिभस्मिततमःस्तोमे सुमेरोगुहागर्भे चण्डपगोत्रमण्डन! भवद्दानानि देव्यो जगुः ॥६॥ देव! त्वत्प्रतिपन्थिपार्थिवपुरीसौधाग्रभागादिव, प्राप्य व्योमविहारदुर्लभमपि प्रौढप्ररुढप्रभः । श्रीमञ्चण्डपगोत्रमण्डन! भवत्कीर्त्या जितो यामिनीजीवेशस्तनुते तृणं निजमुखे लक्ष्मच्छविच्छद्मना ॥७॥ गुणग्रामे रामे जितसितकरे सत्यपि निजे, स्वयं गृह्णासि त्वं परगुणमताहक्षमपि यत् । अयं लोभक्षोभश्चतुर! चतुराम्भोधिरसनावनीशिक्षादक्ष ! स्फुरति किमु ते मन्त्रिमुकुट !? ॥८॥ भोगीन्द्रस्त्वद्भुजेन त्रिपुररिपुरपि त्वत्प्रभुत्वप्रभावैः, शीतांशुस्त्वन्मुखेन त्रिदशसरिदपि त्वचरित्रप्रपञ्चैः । शक्रेभस्त्वद्गतेन प्रसभमशुभतां लम्भिताः सज्जलज्जं, निर्मज्जन्ति स्म तस्मिन् सचिव ! तव यशस्तोयधौ वस्तुपाल! ॥९॥ भर्ता भोगभृतां बिभर्ति वसुधामेव प्रभावाद्भुतां, दिग्दन्तीन्द्रकरस्तु हन्ति च रिपून् धत्ते च धात्रीमिमाम् । श्रीमन्त्रीश! भवद्भुजस्तु कृतिनां दत्ते च वित्तव्र, भिन्ते च द्विषतो दधाति च धरामेषां क साम्यं मिथः ? ॥१०॥ इन्दुर्निन्दति कौमुदीसमुदयं मुक्तामणीनां ततिर्मुक्तालङ्कतिरस्तचण्डिमहिमं दी न साधिपः ।। गर्व शर्वधराधरो न कुरुते न स्वर्धनी स्पर्धिनी, श्रीमन्त्रीश्वरवस्तुपालयशसि त्रैलोक्यमाक्रामति ॥११॥ बलि-कर्ण-दधीचिकीर्तयः, कलिपङ्कार्पितमत्यजन् मलम् । तव दानपयोनदीकृतस्नपनश्चण्डपगोत्रमण्डन ! ॥ १२ ॥ शके पङ्कजिनीपतिः क्रतुभुजां साथैः स्वयं प्रार्थितः, कर्ष कर्षमिलातलादनुदिनं त्वदानतोयच्छटाः। श्रीमञ्चण्डपवंश्य ! सिञ्चति शचीचित्तेशलीलावन, नैवं चेत् कथमन्यथा विटपिनामप्यत्र दानक्रिया ? ॥१३ ॥ वस्तुपालस्तुतिकाव्यानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy