SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अष्टमं परिशिष्टम् वस्तुपालस्तुतिकाव्यानि । [महामात्यश्रीवस्तुपालविनिर्मितनरनारायणानन्दमहाकाव्यप्रतिसर्गप्रान्त गतानि अन्यान्यकविविरचितानि वस्तुपालस्तुतिकाव्यानि । ] सद्धामसिंहपृतनारुधिरारुणानि, श्रीवस्तुपालकरवालविजृम्भितानि । कीनाशकासरकटाक्षसहोदराणि, को नाम वीक्षितुमपि क्षमते विपक्षः प्रथमसर्गप्रान्ते ॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्य स्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ? ॥२॥ द्वितीयसर्गप्रान्ते ॥ श्रीवस्तुपाल ! कलिकालविलक्षणस्त्वं, संलक्ष्यसे जगति चित्रचरित्रपात्रम् । यद् दानसौरभवता भवता वितेने, नानेकपेन मदमेदुरिता मुखश्रीः ॥ ३ ॥ तृतीयसर्गप्रान्ते ॥ गृहासि नाम परतोऽपि नवान् गुणांस्त्वं, त्यागो गुणस्तव नवस्तु न वस्तुपाल !। लोकोत्तरस्तदपरस्य नरस्य स स्याद् , यत् तादृशो नहि दृशोः पथि मादृशानाम् ॥ ४ ॥ ___चतुर्थसर्गप्रान्ते ॥ कैरसरसिरुहं ते वासवेश्म श्रियोऽभूदजनि वदनपद्मं सद्म वाग्देवतायाः । इह जगति समस्ते वस्तुपाल! स्तुमः कं ! , सचिवतिलक ! धन्यं तद् वदाऽन्यं वदान्यम् ॥५॥ पञ्चमसर्गप्रान्ते ॥ १ पद्यमिदं धर्माभ्युदयमहाकाव्यैकादशसर्गप्रान्ते वर्त्तते, उदयप्रभीयवस्तुपालस्तुतौ २३तमं वर्तते, जिनहर्षीयवस्तुपालचरिते “कृपालवालं श्रीवस्तुपालं स्तौति स्म कश्चन ।" इत्युल्लेखेन निर्दिष्टं चापि वर्तते ॥ २ पद्यमिदमुदयप्रभीयवस्तुपालस्तुतौ २२तमं वर्तते ॥ ३ पद्यमिदं नरनारायणानन्द महाकाव्यनवमसर्गप्रान्तेऽपि वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy