SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] वस्तुपाल तेजः पालप्रशस्तिः । आजन्मावधि वंशयष्टिकलिता भ्रान्ताऽहमेकाकिनी, वृद्धा सम्प्रति पुण्यपूर्ण ! भवतः सौवर्णयष्टिस्पृहा इत्युक्त्वा मम पञ्चविंशतिमितास्तेन स्वयं दर्शिता ॥ ६७ ॥ ॥ ६८ ॥ स्तस्मिन् सुव्रतधानि देवकुलिकाः कल्याणकुम्भस्पृशः । ताः सौन्दर्यभृतोऽपि कान्तिनिधिभिः कल्याणदण्डैर्विना, सीमन्तैरिव सुभ्रुवो विदधते नान्तः सतां सम्मदम् आदेशं देव ! यद्येवं, दत्से स्वच्छेन चेतसा । हेमदण्डानिमानत्र, तदहं कारये रयात् इत्यन्तःस्मितवस्तुपालसचिवादेशाल्लसत्तेजसस्तेजःपालमहामतिर्व्यरचयत् कल्याणदण्डानिमान् । प्रत्येकं हरहासहारिमहसो येषां शिखासु स्थिता, नृत्यन्ति प्रतिवासरं परिचलत्के तुच्छलात् कीर्तयः ६९ जुह्वन् पातकपादपैकदहने तीर्थेशधर्मे निजां, कर्मालीं न कति क्रतूनकृत स श्रीवस्तुपालानुजः ? । दण्डा यूपवदुच्च सुव्रतगृहक्ष्माभृद्भवायाममी, तत्तेनाऽम्बडमण्डलेश्वरयशः सिन्धौ समारोपिताः ॥ ७० ॥ दत्ते चेतसि सम्मदं सुकृतिनां तेनेयमुत्तम्भिता, चञ्चच्चारुमरीचिवीचिकलिता कल्याणदण्डावलिः । पूर्वोर्वीधरकुञ्जतः प्रसरता प्रातर्वियत्कानने, यत्राऽऽगत्य भियेव गोपतिगवीवृन्देन मन्दायते ॥ ७१ ॥ यावच्चण्डपगोत्रमण्डनमणेः कीर्तिर्वियद्वाहिनीहस्ता दिग्गजगर्जिवाद्यविभवैर्व्यामाङ्गणे नृत्यति । दण्डास्तावदमी सुवर्णघटनाविभ्राजिनः केतनक्रीडत्किङ्किणिकारवव्यतिकरैः कुर्वन्तु गीतक्रमम् ॥ ७२ ॥ तेजःपालयशोविलासविशदश्रीणां दिशां कौतुकक्रीडामण्डपडम्बरं महदहो ! यावद् दधात्यम्बरम् ।. तावन्नूतनजातरूपजनितः सोऽयं समुत्तम्भनस्तम्भस्तोमसमानतां वितनुतामुद्दण्डदण्डव्रजः ॥ ७३ ॥ स्वस्तिश्रीव्योमदेशादुदयनतनुभूकीर्तिरुर्बीतले श्री तेजःपालं प्रसन्ना वदति मतिमतां वन्द्य ! नन्धा मदायुः । येन त्वत्कुप्तहेमध्वजविततभुजा दुःषमादाहदूनां, लिम्पन्तां ता मुहुर्मामिह जिनगृहिकास्त्वद्यशश्चन्दनेन मोहो द्रोहधियाऽधिरोहति रसं श्रीपुञ्जहृत्पञ्जरे, क्षिप्तो यः कलिकालकेलिविधुरो दक्ष ! त्वया रक्षितः । श्री सोमान्वयवार्धिवर्धन कलासोम ! स्वयं निर्मलो, धर्मः प्रत्युपकारकर्मठतया स त्वां क्षितौ रक्षतु ॥७५॥ श्रीवस्तुपाल ! तव चित्तवनप्ररूढः, सत्त्वोपकारमतिसारणिसिच्यमानः । सत्पत्र- पुण्यकुसुमः फलदोऽस्तु तुभ्यमव्याजविश्वसुहृदे जिनधर्मवृक्षः श्री सुव्रतपदाम्भोजमधुत्रात मधुव्रतः । एतां प्रशस्तिमस्ताघां, जयसिंहः कविर्व्यधात् Jain Education International ॥ श्रीजय सिंह सूरिविरचिता वस्तुपालतेजःपालप्रशस्तिः ॥ >>>OFOrt For Private & Personal Use Only ३९ ॥ ६६ ॥ 11 68 11 ॥ ७६ ॥ ॥ ७७ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy