________________
३८ जयसिंहसूरिविरचिता
[ षष्ठं वीरश्रीवरधानि वीरधवले सिंहारवान् मारवान् , जेतुं यातवति प्ररूढपुलकैर क्रूरयन् पौरुषम् । यस्तीर्खा यदुसिंहसिंहणबलाम्भोधिं भुजक्रीडया, गर्जन्नर्जितवान् यशस्त्रिजगतीमुक्तालतामण्डनम् ॥५३॥ सम्पूर्णे भुवने घनेन रजसा श्रीतीर्थयात्रापरिस्यन्दिस्यन्दनवृन्दतारतुरगनातक्रमोत्पातिना । यत्कीर्तेः सह पांशुकेलिसुहृदो नन्दन्ति मन्दाकिनी-दुग्धाम्भोधि-विभावरीविभु-ककुप्कुम्भीन्द्र-रुद्रादयः५४ येनाऽकारि तमोनिकारिकलशालङ्कारि शत्रुञ्जयक्ष्माभृन्मण्डनमिन्द्रमण्डपमहो! नामेयभर्तुः पुरः । तेनैकां युधुनीं दधद्धिमगिरिः पार्श्वस्थपार्श्वप्रभु-श्रीमन्नेमिनिकेतकेतनयुगाभोगेन निर्भर्त्सतः ॥५५॥ यः शत्रुञ्जयशेखरं जिनगृहश्रीतारहारं स्खलत्ताराधोरणि तोरणं यदसृजत् तन्मूर्ध्नि लक्ष्मीः स्थिता। शद्धेऽभूदुदितद्विपक्षवदना नन्तुं समागच्छतो, नाभेयं प्रणिपत्य च प्रचलतो यस्याऽऽस्यवीक्षाशया॥५६॥ श्रीशत्रुञ्जयशृङ्गसीनि सरसि प्राप्याम्बु यत्कारिते, नीचत्वाय सुधाकराय विबुधाः कुर्वन्ति नोपक्रमम् । इत्यूहं कृतिनोन्वहं विदधते कुन्दावदातधुता, भास्वच्छाश्वतराकया जगति यत्कीर्त्यापरीतेऽभितः ५७
येन व्यधाप्यत विधुद्युतिहारिवारी, श्रीपादलिप्तनगरीमुकुरस्तडागः ।
यद्यस्त्यगस्तिरिह कोऽपि तदेतु तन्याद् , दोःस्फालनं मुहुरितीव महोर्मिभिर्यः ॥५८ ॥ अर्कपालितकामे, तेन तेनेऽद्भुतं सरः । यस्य निस्यन्दलेखेव, पार्थे वहति वाहिनी ॥ ५९ ।।
येनोजयन्तगिरिमण्डननेमिचैत्ये, नाभेय-पार्श्वजिनसद्मयुगं व्यधायि ।
अन्तः स्वयंघटितनाभिज-नेमिनाथ-श्रीस्तम्भनेशगृहमप्युदधारि हारि ॥६० ॥ स्वर्ग यद्गुरुचैत्यतोरणशिरःपद्यापदैः प्राप यद्वापी-कूप-तडागमार्गचलनैः पातालमूलं ययौ। सा यत्पौषध-मन्दिरोदर-वराऽऽरामप्रपामध्यभूविश्रामश्रयणेन भूमिमपि यत्कीर्तिर्मुहुर्गाहते ॥६१ ॥ यन्निर्मापितदेवमन्दिरशिरःकल्याणकुम्भप्रभाषाग्भारैर्विदधे सदा सुदिवसं सर्वत्र धात्रीतले । दृश्यः शाश्वतिकस्तथा प्रसृमरश्यामच्छविच्छद्मना, यत्खड्गक्षतवैरिवामनयनावक्त्रेषु रात्रिक्षणः ॥६२॥
अस्थापयत् स्थिरमतिः शकुनीविहारे, संसारतारिलसदम्बडधर्मपुजे।
श्रीपार्श्व-वीरजिनपुङ्गवयुग्मदम्भाद् , यो यामिकद्वयमिवाग्रिमधर्मबन्धुः ॥६३ ॥ तमेकदा करारोपभर्सितस्वर्णशेखरः । श्रीतेजःपालमन्त्रीशो, मुदा ज्येष्ठं व्यजीज्ञपत् ॥६ ॥
सुव्रतक्रमनमस्कृतिहेतोर्यातवान् भृगुपरं प्रति सोऽहम् । काव्यमुज्वलनयो जयसिंहमूरिरित्यपठदत्र मदने
॥६५॥ तेजःपाल ! कृपालधुर्य ! विमलप्राग्वाटवंशध्वज !,
श्रीमन्नम्बडकीर्तिरद्य वदति त्वत्सम्मुखं मन्मुखात् । १. °चत्थाय गा० ॥ २. पद्यमिदं पुरातनप्रबन्धसंग्रहान्तर्गतवस्तुपालतेजःपालप्रबन्धे-" एकदा मन्त्री तेजःपालो भृगुपुरमायातः । तत्र श्रीमुनिसुव्रतचैत्याचार्यैः श्रीरासिल्लसूरिभिरुक्तम्-मन्त्रिन् ! सन्देशकमेकं शृणु । [ मन्त्रिणोक्तम्-आदिश्यताम् । अद्य पाश्चात्ययामिन्यां वृद्धा युवत्येका समेत्य प्राह" इत्युल्लेखानन्तरं निष्टङ्कितं वर्तते । पत्रम् ६२ । तथा उपदेशतरङ्गिण्यां ७४ तमपत्रेऽप्येवंरूपेणैव वर्तते । केवलं तत्र " श्रीमुनिसुबतचैत्यार्चकैराचार्यैरुक्तम्" इति वर्त्तते, न तत्र रासिल्लसूरेरन्यस्य वा कस्याप्याचार्यस्य नामोल्लेखो वर्त्तते इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org