SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] वस्तुपालतेजःपालप्रशस्तिः । पाताले बलिराजराज्यविशदे विश्वम्भरामण्डले, यल्लीलायितमञ्जुले सुरपुरे कल्पद्रुमुद्राजुषि । दारिद्येन भयद्रुतेन सहसा यद्वैरिवीराश्रयादश्रान्तप्रसरेण शैलशिखरक्रोडेषु विक्रीडितम् ॥ ३७ ॥ यस्यासिरम्भोदसहोदरश्रीः, शौर्यं द्विपस्येव मदप्रवाहः । सर्पन् सदर्पारिनरेन्द्रकीर्तिकासारपूरं कलुषीचकार ॥ ३८ ॥ सचिवप्रवरं कञ्चित्, प्रार्थितस्तेन पार्थिवः । श्रीमान् भीमो मुदा वाचमुवाच श्रवणामृतम् ॥ ३९ ॥ वाग्देवताचरणकाञ्चननूपुरश्रीः, श्रीचण्डपः सचिवचक्रशिरोऽवतंसः । प्राग्वाटवंशतिलकः किल कर्णपूरलीलायितान्यधित गुर्जर राजधान्याः || 80 || ॥ ४१ ॥ मतिकल्पलता यस्य, मनःस्थानकरोपिता । फलं गूर्जर भूपानां, सङ्कल्पितमकल्पयत् वाग्देवीप्रसादः (?), सूनुश्चण्ड प्रसाद इति तस्य । निजकीर्तिवैजयन्त्या, अनयत गगनाङ्गणे गङ्गाम् ॥४२॥ पातालमूले पिहितांशुभासः, पृथ्वीविभागेऽपि हराट्टहासः । स्वर्गेऽपि दुग्धाब्धिपयोविलासः, कीर्तिर्यदीया त्रिजगत्युवास कीर्तिकश्मलित पार्वणसोमः, सोम इत्यजनि तस्य तनूजः । सिद्धराजगुणभूषणभाजः, संसदो विशददर्पणकल्पः ३७ ॥ ४४ ॥ उत्कर्षप्रगुणां गुणा-गुणपरिज्ञानौचितीं मन्महे, तस्य प्रीतिरसादनन्यमनसा येनान्वहं सेविताः । देवस्तीर्थकृदेव केवलनिधिर्विद्यानिधानं गुरुः, सूरिः श्रीहरिभद्र एव गुणधीः सिद्धेश एवाधिपः ॥ ४५ ॥ सीताकुक्षिसरोवरैकवरलाकान्तोऽश्वराजाख्यया, तस्याभूत् तनुभूः सदाऽपि जननीभक्तौ च यः पावनः । स्फूर्जद्धूर्जटिजूटकोटर पदन्यासोत्थपापच्छिदे, स्वर्नद्याऽपि समाश्रितः सितलसत्कीर्तिच्छविच्छद्मना ॥४६ सप्तलोकचरी सप्ततीर्थयात्रासमुद्भवा । गङ्गां जिगाय यत्कीर्तिर्विश्वत्रितयविस्तृताम् ॥ ४७ ॥ Jain Education International ॥ ४३ ॥ भैमीव नैषधमहीरमणस्य तस्य, कान्ता सती समजनिष्ट कुमारदेवी । यन्मानसे जिनपदाम्बुजभाजि शुद्धपक्षद्वयः पतिरराजत राजहंसः श्रीमल्लदेव इति तत्तनुभूर्बभूव, यत्कीर्तिपूरशशिनोर्गगनाङ्कपीठे । स्पर्धेद्धुरं प्रसृतयोरिव साम्यदण्डं, स्वर्दण्डमेव विधिरन्तरधत्त हृष्टः विद्येते हृद्यविद्यौ तदनु तदनुजौ धीनिधी वस्तुपाल- स्तेजःपालश्च तेजस्तरणितरुणिमस्फूर्तिरोचिष्णुमूर्ती | श्रीमन्नेतौ निजश्रीकरणपदकृतव्यापृती प्रीतियोगात्, ॥ ५० ॥ तुभ्यं दास्यामि विश्वं जयतु नवनवं धाम तन्मन्त्रमित्रम् इत्युक्त्वा प्रीतिपूर्णाय, श्रीवीरधवलाय तौ । श्रीभीमभूभुजा दत्तौ, वित्तमाप्तमिवाऽऽत्मनः ॥ ५१ ॥ अन्ये केचन रोचमानमतयो मन्त्रीश्वरा भास्करा, लप्स्यन्ते बत ! वस्तुपालसचिवाधीशेन साम्यं कुतः ? | सार्धं यल्लघुबन्धुनाऽपि दिविषद्वृन्दैकमान्यः स्वयं, सामान्यप्रतिपत्तिगौरवपदं वाचस्पतिर्वाञ्छति For Private & Personal Use Only 11 82 11 ॥ ४९ ॥ ॥ ५२ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy