SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीजयसिंहसूरिविरचिता [ षष्ठं स्वैरेव प्रहतैर्द्विषद्भिरमरीभूतैः सुरीभिः समं, गीतं प्रीतिरसैः स्वमेव हृषिते तस्मिन् यशः शृण्वति । क्ष्मां पाति स्म कुमारपालनृपतिर्यत् कीर्तिकालुष्यदं, __ तद् बाप्पाजनकश्मलं न रुदतीवितं सवित्तोऽग्रहीत् ॥ २४ ॥ जैनं धर्ममुरीचकार सहसाऽर्णोराजमत्रासयद् , बाणैः कुङ्कणमग्रहीदपि गुरूचक्रे स्मरध्वंसिनम् । इत्थं यस्य परिक्षतक्षितिभृतो हंसावलीनिर्मलै, रामस्येव निरन्तरं नवयशःपूरैर्दिशः पूरिताः ॥ २५ ॥ ताहग्दानपरम्पराभिरभितो निष्काश्य कालं कलिं, त्रेता-द्वापरयोरहम्प्रथमिकाबद्धस्पृहं पश्यतोः । श्रेयश्चन्दनतो विशेषकविधिं कृत्वा यशोजाह्नवी पाथोभिः कृतिना स्वयं कृतयुगो येनाभिषिक्तः क्षितौ ॥ २६ ॥ अजयदजयपालभूमिपालः, क्षितिमथ मन्मथमञ्जुलेन येन । त्रिपुररिपुरपि प्रसूनबाणैरिव पिहितः सहसा यशःसमूहैः ॥ २७ ॥ अन्तर्यत्कीर्तिकासारं, कृतस्नानस्य सर्वतः । लग्नफेनलवायन्ते, तारा गगनदन्तिनः ॥ २८ ॥ बालः श्रीमूलराजोऽथ, विक्रीडन् समराङ्गणे। द्विपल्लताप्रतानानि, समूलमुदमूलयत् ॥ २९ ॥ आपपे प्रसूतिसम्भ्रमेण यत्तेजसा रिपुयशःसुधारसः । तेन निर्गलितबिन्दुवृन्दवद, द्योतते वियति तारकाततिः ॥ ३० ॥ भूमीभारमथो बभार भुजयोः श्रीमीमदेवो विभुर्दानारम्भविजृम्भमाणविभवप्रागल्भ्यगर्जद्यशाः । गीतो यत्तुलया विरोचनसुतः पातालवैतालिकैरर्थोत्तालमनोभिरन्वहमहङ्कारं चकार स्मितः ॥ ३१ ॥ यदाननसरोजेन, नित्यस्मेरेण निर्जितः । सज्जलज्ज इवामज्जद्, यद्यशोजलधौ विधुः ॥३२॥ अर्णोराजानजातं कलकलहमहासाहसिक्यं चुलुक्यं, श्रीलावण्यप्रसादं व्यतनुत स निजश्रीसमुद्धारधुर्यम् । यस्य प्रत्येकधाराद्वयफलितभुजायुग्मशाली रिपूणां, कीलालैः पीतवासा इव समिति चतुर्बाहुतामेति खगः ॥ ३३ ॥ तादृक्कम्पव्यतिकरभृतां सर्वतः पर्वतानां, व्यातन्वद्भिः क्षयसममरुत्पूरशङ्कातिरेकम् । यत्प्रत्यर्थिक्षितिधववधूवर्गनिःश्वासवातव्रातोत्पातैरिव दिवि सदा भ्रेमुरर्केन्दु-ताराः ॥ ३४ ॥ भूभारोद्धृतिधुर्यदुर्द्धरभुजस्तस्याङ्गजन्मा स्फुर कीर्तिः श्रीधवलोऽस्ति वीरधवलोऽहङ्कारलङ्केश्वरः । यस्मिन् निघ्नति मार्गणै रिपुगणं हृष्यन्ति तस्याङ्गनाः, कामोऽयं कुरुते मदेकवशगं चित्तेशमित्याशया विक्रीडतो यस्य नवप्रताप-यशःकुमारौ जगदङ्गणान्तः । प्रभावभाजौ लसतस्तदङ्गरक्षासु दक्षाविव सूर-राजौ ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy