SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [प्रथम ॥१७४ ॥ ॥१७५ ॥ श्रीउदयप्रभाचार्यविरचिता येन स्तम्भनकाधिदैवतजिनप्रासादमुद्धृत्य तं, तत्तेने किमपि प्रपाद्वयमपि श्वेतांशुशुभ्रप्रभम् । यत् पश्यन्ति पुरो जिनेश्वरपदानुध्यानयात्राधना, धीमन्तो निजमूर्तिकीर्तिसुकृतं चञ्चद्वया(वजा)डम्बरम् श्रीमालवेन्द्रसुभटेन सुवर्णकुम्भानुत्तारितान् पुनरपि क्षितिपालमन्त्री। श्रीवैद्यनाथसुरसमनि दर्भवत्यामेकोनविंशतिमपि प्रसभं व्यधत्त तत्रैव वीरधवलक्षितिवल्लभस्य, मूर्ति तदीयसुदृशोऽपि च जैत्रदेव्या: स्वीयानुजस्य च निजस्य च मल्लदेवमन्त्रीश्वरस्य च चकार स भूपमा नृत्यन्त्या व्योमरने क्रमकटकझणत्कारतारं घुगङ्गा रङ्गचक्राङ्गनादं सचिवकुलपतेर्वस्तुपालस्य कीर्तेः । खेदप्रस्वेदबिन्दुश्रियमियमयते पद्धतिस्तारकाणां, यावत् तावत् पताकाञ्चलचलनविधिं चैत्यमाला विधत्ता इमामकृत सद्गुरोविजयसेनसूरिप्रभोः, क्रमाम्बुजरजोमजा विमलमानसोल्लासभृत प्रशस्तिमुदयप्रभः प्रभवदद्भुतप्रातिभप्रभावभरभासुरः सुकृतकीर्तिकल्लोलिनीम् प्रसादादादिनाथस्य, यक्षस्य च कपर्दिनः । वस्तुपालान्वयस्यास्तु, प्रशस्तिः स्वी ॥ समाप्ता सुकृतकीर्तिकल्लोलिनीसंज्ञकेयं प्रशस्तिः ॥ कृतिरियं पण्डितपुण्डरीकश्रीमदुदयप्रभस्य ॥ ॥ सङ्ख्या ग्रन्थाग्रं ४०० ॥ शुभं भवतु ॥ । लेखकपाठकयोश्च कल्याणमस्तु ।' -- - - १ श्रीवैद्यनाथवरवेश्मनि दर्भवत्यां, यान् दुर्मदी सुभटवर्मनृपो जार । तान् विंशतिं द्युतिमतस्तपनीयकुम्भानारोपयत् प्रमुदितो हृदि वस्तुपालः॥ ४८ ॥ नरेन्द्रप्रभीयवस्तुपालप्रशस्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy