SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पशिष्टम् ] सुकृतकीर्तिकल्लोलिनी। मजन्तीमवनीमवेक्ष्य दुरिताम्भोधौ नवं भूधर प्राग्भारं रचयाञ्चकार यमसौ तीर्थेशचैत्यच्छलात् । तत्रैनःप्रतिदन्तिनाशसुभगः प्रेक्षामृदङ्गस्वनैगर्जन् विश्वजयी जयत्यनुदिनं धर्मद्विपो भूतले ॥ १६३॥ स्तम्भनपुर-रैवतगिरिदैवतचैत्ये प्रपञ्चिते येन । 'शत्रुञ्जयजिनपुरतस्तीर्थत्रयगतिफलं कुरुतः ॥ १६४॥ पञ्जये भवपयोधितरार्थतीर्थ, येनेन्द्रमण्डपमखण्डपदं व्यधायि । सादुरःकरधृताद्भुतकुम्भशक्त्या, तीर्खा तमोजलमयन्ति जना जिनाग्रे ॥१६५ ॥ अस्मिन्नाभिभुवः प्रभोस्तनुभवश्चक्री स चक्रे पुरा, चैत्यं श्रीभरतः परे तु सगरक्ष्मापालमुख्या व्यधुः । वो दाशरथिः पृथासुतपतिः प्राग्वाटभूर्जावडिः, शैलादित्यनृपः स वाग्भटमहामन्त्री च तस्योद्धृतिम् । ॥ १६६॥ मातन्वन्नमरेन्द्रमण्डपमयं श्रीरैवत-स्तम्भना लङ्कारप्रभुनेमि-पार्श्वसहितं तीर्थेऽत्र शत्रुञ्जये । मावाटान्वयवार्धिवर्धनविधुर्धात्रीशमन्त्रीशिता लाध्यः सङ्घपतिः सतां विजयते श्रीवस्तुपालोऽधुना के चित्रं यदि वत्सवत्सलतया स्वच्छाश्ममूर्तिच्छला दत्राऽऽखण्डलमण्डपे सुरपुरादभ्याययुः पूर्वजाः । एतस्य प्रतिपन्नसू नुपदवीभाजोऽपि येनाद्भुत प्रीत्या वासमिह व्यधाद् विधिपुरं त्यक्त्वाऽपि वाग्देवता ॥ १६८॥ प्रष्ठे काञ्चनपट्टिकं जिनपतेराद्यस्य भामण्डल श्रीतुल्यं पुरतोऽपि सत्यपुरभूवीरावतारं मुदा । कुम्भान् पञ्च च पञ्चपातकतमश्चण्डद्युतीन् मण्डपे, श्रीशत्रुञ्जयदन्तिदाननदवच्चक्रे तडागं च यः ॥ १६९ ॥ चक्रे च यो धवलके विमलाद्रिचैत्यं, पञ्चासरं च पुरि गूर्जरकर्णिकायाम्।। तत्केतुकैतवकरद्वयनर्तनेन, शुभ्रप्रभा नभसि नर्तयति स्म कीर्तिम् ॥१७० ॥ तिमय च मन्त्रीशस्तीर्थेशं मुनिसुव्रतम् । योऽश्वावतारतीर्थस्य, मन्दिरं विदधे कृती ॥ १७१ ॥ मे शासनदत्ते च, विदधे योऽर्कपालिते । तडागं सागराकारममात्यः प्रपया सह ॥ १७२ ॥ पाजात् पौषधशालानां, नासत्यरुचिचेष्टितः । यः पापौषधशालानां, श्रेणिं श्रीमानकारयत् ॥ १७३ ॥ १ पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ एकविंशतितमपद्यतयाऽपि दृश्यते ॥ २ यदसौ उदयप्रभीयवस्तुपालस्तुतौ ॥ 'यी विभाति भुवने श्रीधर्मगन्धद्विपः उदयप्रभीयवस्तुपालस्तुतौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy